________________
७०९
अतीन्द्रियार्थदर्शिपरीक्षा येन तत्स्पर्धया तेऽपि सर्वज्ञा इति मोहदृक् ॥३२०८॥ सात्मीभूतवेदत्वाद् वेददेहा उच्यन्ते। सर्वपदार्थज्ञानकारणत्वात् सर्वज्ञानमयो वेदः। [G.837) एतदुक्तं भवति-न हिं ब्रह्मादीनां स्वातन्त्र्येण धर्मादिषु ज्ञानमप्रतिघं प्रवर्त्तते, किं तर्हि ? वेदद्वारेण । न चैवं बुद्धादीनां भवद्भिरिष्यते; तेषां स्वायत्तज्ञानत्वात् ।
किञ्च–ब्रह्मादीनां ध्यानाभ्यासाद् विशुद्धज्ञानसम्भवो युज्यत एव; तेषां देवत्वेन सर्वजनोत्कृष्टत्वात्, वेदे पठितत्वाच्च। मनुष्यस्य तु न कदाचिदीदृशं सामर्थ्य सम्भाव्यम्; तस्य तद्विपरीतत्वात् । तस्मान् मनुष्या अपि सर्वज्ञा इति मोहदृक् मोहदर्शनमेतद् भवताम् . ॥ ३२०७-३२०८॥
स्यादेतद्-यदि ब्रह्मादयो वेदे पठ्यन्ते, तदा कथमनित्याभिधेयसम्बन्धात् वेदस्याप्यनित्यत्वं न प्रसज्येत; अथ वेदानां नित्यत्वमिष्यते, तदा ब्रह्मादीनां नित्यवेदाभिधेयत्वं विरुध्यते; तेषामनित्यत्वात्; अथ तदविरुद्धम्, तदा बुद्धादीनामपि तदभिधेयत्वाविरोधः? इत्येतदाशङ्कयाह
नित्येऽपि चागमे वेदे ब्रह्मादित्रयकीर्तनम्।
तन्नित्यत्वाच्च वेदानां नित्यत्वं न विहन्यते॥३२०९॥ ते हीत्यादिना एतदेव स्पष्टीकरोति
ते हि नित्यैर्गुणैर्नित्यं कर्मभिश्च समन्विताः। नित्यवेदाभिधायित्वसम्भवान्न विरोधिनः ॥३२१०॥ अनित्यस्य तु बुद्धादेन नित्यागमगम्यता।
नित्यत्वे चागमस्येष्टे यथा सर्वज्ञकल्पना॥३२११॥ __न नित्यागमगम्यतेति। शब्दार्थसम्बन्धस्यानित्यत्वप्रसङ्गात्, नित्यस्य चागमस्य परैरभ्युपगमात्, अभ्युपगमे वा सर्वज्ञकल्पनाया वैयर्थ्यप्रसङ्गात् ।। ३२०९-३२११ ।।
एतदेव दर्शयति
. .सर्वज्ञज्ञापनात् तस्य वरं धर्मावबोधनम्। . वेदबोधितसर्वज्ञज्ञानाद् धर्मात् तिरोहितात्॥३२१२॥
अतिरोहितधर्मादिज्ञानमेव विशेष्यते। ..' एवमागमगम्यत्वं न सर्वज्ञस्य लभ्यते॥३११३॥ नित्यस्यागमस्य सर्वज्ञापनात् सकाशाद् वरं धर्मावबोधनमेवेष्टम्। कथं तद् वरम्? इत्याह-वेदबोधितेत्यादि। [G.838] वेदाश्रयेण हि धर्मज्ञानं भवदतिरोहितं भवति; आरे लोकस्थितेर-विशेषेण सर्वेषामेव सम्भवात्। तिरोहितस्तु वेदबोधितसर्वज्ञज्ञातो धर्मः; तस्य निर्वाणं गतस्याप्रकटत्वात् । अनिर्वाणावस्थायामप्यनिच्छया तदुपदेशाभावात् । उपदेशेऽपि सर्वत्र सर्वदा सर्वेषां श्रवणाभावात् ।। ३२१२-३२१३ ।। (४) नाप्युपमानप्रमाणसमधिगम्यः सर्वज्ञ इति दर्शयति
सर्वज्ञसदृशः कश्चिद् यदि दृश्यते सम्प्रति। १. स्वयं तु ज्ञानत्वात्-पा०। २. अन्यथा-पा०। ३-३. निर्वाणे गतस्या०- जै०; निर्वाणं तस्या०-पा०। .