________________
७०८
तत्त्वसंग्रहे ज्ञानमिति । औपयिके-पुरुषार्थोपयोगिनि धर्मादौ ज्ञानमौपयिकज्ञानम्। यावदिति चानवशेषम् । औपयिकज्ञानविशेषणं चैतत् ॥ ३२०२-३२०३ ॥ यद्वेति पक्षान्तरमाह
यद्वाऽऽत्मन्येव तज्ज्ञानं ध्यानाभ्यासप्रवर्तितम्।
तस्यैवाप्रतिघातेन ज्ञानाप्रतिघतोच्यते॥ ३२०४॥ आत्मर्नीति पुरुषे। तस्यैवेति आत्मविषयस्य ज्ञानस्य ॥ ३२०४॥
ननु चेश्वरस्य ज्ञानादयो दशाव्यया गुणाः पठ्यन्ते, तत् कथमसावव्ययज्ञानयोगात् सर्वज्ञो न भवति? इत्याह
ज्ञानं वैराग्यमैश्वर्यमिति योऽपि दशाव्ययः। .
__ शङ्करः श्रूयते सोऽपि ज्ञानवानात्मवित्तया॥३२०५॥ [G.836] ज्ञानम् तत्त्वावबोधः, वैराग्यम्=विषयवैमुख्यम्, ऐश्वर्यमष्टविधम् अणिमा, लघिमा, महिमा, प्राप्तिः, प्राकाम्यम्, ईशित्वम्, वशित्वम्, यत्रकामावसायितां च-इत्येते दश ज्ञानादयोऽव्यया अनुयायिनो यस्यासौ दशाव्ययः । तत्राणिमा यदणुशरीरो भूत्वा सुखं लोकं सञ्चरति सर्वभूतैरदृश्यः । लघिमा यो लघुत्वाद् वायुवद् विचरति । महिमा यत् पूजितः सर्वलोकेषु वन्दितोऽर्चितश्च महद्भयोऽपि महत्तमो भवति। प्राप्तिः यद्यन्मनसा चिन्तयति तत्तत् प्राप्नोति। प्राकाम्यम् यत् प्रचुरकामो भवति, विषयान् भोक्तुं शक्नोतीत्यर्थः । ईशित्वम् यत् त्रैलोक्यस्य प्रभुर्भवंति । वशित्वम् यद् भूतानि स्थावरजङ्गमानि वशं नयति, वश्येन्द्रियश्च भवति। यत्रकामावसायिता=यत् ब्राह्मप्राजापत्यदैवगान्धर्वयाक्ष्यराक्षस्यपैत्रपैशाचेषु मनुष्येषु तैर्यग्योन्येषु च स्थानान्तरेषु यत्र यत्र कामयते तत्र तत्रावसति। आत्मवित्तति आत्मवेदितया। स ज्ञानवान्, न तु निरवशेषपदार्थपरिज्ञानवत्तयेत्यर्थः ॥ ३२०५ ॥ कस्मात् पुनरेकदेशपरिज्ञानेऽपि स एव शङ्करो ज्ञानवानुच्यते, नान्यः? इत्याह
एतदेव हि तज्ज्ञानं यद् विशुद्धात्मदर्शनम्।
अशुद्धे तन्निमित्ते च यत् तदज्ञानमुच्यते॥३२०६॥ विशुद्धश्चासावात्मा चेति तथोक्तः, तस्य दर्शनमिति समासः । तन्निमित्त इति । तस्य शुद्धात्मदर्शनस्य निमित्तं तन्निमित्तम्, किं तत् ? आत्मैव। तस्मिन् शुद्ध तन्निमित्ते आत्मनि सति यदात्मदर्शनमविशुद्धं प्रवर्त्तते तदज्ञानमुच्यते; कुत्सितत्वात् ।। ३२०६ ॥
ननु यदि ध्यानाभ्यासाद् ब्रह्मादेविशुद्धज्ञानसम्भवोऽभ्युपगम्यते, तदा कः प्रद्वेषो बुद्धादिषु, येन तेषामपि ज्ञानमप्रतिघं विशुद्धं च नेष्यते?- इत्याशङ्कय पक्षान्तरोपदर्शनेन ब्रह्मादीनां विशेषं दर्शयन्नाह
अथापि वेददेहत्वाद् ब्रह्मविष्णुमहेश्वराः । सर्वज्ञानमयाद् वेदात् सर्वज्ञा मानुषस्य किम्॥३२०७॥ क्व च बुद्धादयो माः क्व च देवोत्तमत्रयम्।
नावशेषम्- पा.. निरविशेषम्-गा। गम्योन्मेष-- जे..।
२. तस्येन्द्रश्च-पा०गा। ४. शुद्धश्वा०-०।
।