________________
अतीन्द्रियार्थदर्शिपरीक्षा
केचिदज्ञकम् । प्रतिभान्ति ते ॥ ३१९७॥
तथा मायेन्द्रजालादिकुशलाः भ्रामयन्ति जनं येन सर्वज्ञाः न हि किञ्चिन्मात्रातीन्द्रियपदार्थपरिज्ञानमात्रेण धर्माधर्मादिपरिज्ञानं तस्य सिध्यति ; कुहकज्ञानिभिर्मायेन्द्रजालादिकुशलै श्चानेकान्तात् । तथा हि- मन्त्रौषधादिप्रयोगेण यथाभुक्तम्=अन्नव्यञ्जनादि, यथाचिन्तितं च मनसा वस्तु, मुष्टिस्थं च द्रव्यं संवादयन्त्येव; न चैतावता धर्मादिविदो भवन्ति । तथा केचिदिन्द्रजालकुशला विचित्रोद्यानविमानाप्सरोगणदेवपुत्रादिकमाकाशे दर्शयन्तीत्यनेकान्तः ॥ ३१९५ -३१९७॥
ननु चेतिहासपुराणेषु ब्रह्मादिः सर्वज्ञः कीर्त्तितः, तथा हि- " ब्रह्मणो ज्ञानमप्रतिघं वैराग्यं च" इति तत्र पठ्यते, तत् कथमागमात् सर्वज्ञो न सिद्ध: ? इत्यत्राह - इतिहासपुराणेषु ब्रह्मादिर्योऽपि सर्ववित् ।
ज्ञानमप्रतिघं यस्य वैराग्यं चेति कीर्तितम् ॥ ३१९८ ॥ गौणत्वेनैव वक्तव्यः सोऽपि मन्त्रार्थवादवत् ।
यद्वा - प्रकृतधर्मादिज्ञानात् प्रतिघतोच्यते ॥ ३१९९॥ धर्मार्थकाममोक्षेषु प्रकृतेषु चतुर्ष्वपि ।
ज्ञानमप्रतिघं तस्य न तत् सर्वार्थगोचरम् ॥ ३२०० ॥
[G.835] यथा मन्त्रेष्वर्थवादनिर्देशो भवति, तथेतिहासादिष्वपि ब्रह्मादेः सर्वज्ञत्वमर्थवादाद् बोद्धव्यम्। अन्यार्थो हि शब्दोऽन्यमर्थं वदतीति कृत्वाऽर्थवाद उच्यते । अथ वा- - प्रकृतेषु धर्मार्थकाममोक्षेषु ज्ञानस्याप्रतिघत्वादस्य ब्रह्मादेज्ञानार्थप्रतिघता निर्दिष्टा, न तु सर्वार्थेष्वप्रतिघातात् ॥ ३१९८-३२०० ॥
ननु च यदि तस्य धर्मादेरन्यत्र वस्तुविज्ञानं प्रतिहन्येत, तत् कथमप्रतिघमित्युच्येत ? इत्यत आह- •
न ह्यप्रतिघतामात्रात् सर्वगोचरतोच्यते ।
·
8.07401
३. ० प्रति..... तोच्यते- पा० । ५. फलदज्ञानं - पा०, गा० ।
स्वार्थेष्वप्यप्रतीघाताद्भवत्यप्रतिघं हि तत् ॥ ३२०१॥
यद्येवम्, यदि स्वार्थप्रतिघातादप्रतिघमुच्यते, तदा सर्वेषामेव पुंसां ज्ञानं स्वार्थाप्रतिघातीति तत् को विशेषो ब्रह्मादेर्येन तस्यैवाप्रतिघं ज्ञानमुच्यते, नान्येषाम् ? इत्यत्राह - एतच्च फलवज्ज्ञानं यावद् धर्मादिगोचरम् ।
न तु वृक्षादिभिर्ज्ञातैः सर्वैः किञ्चित् प्रयोजनम् ॥ ३२०२ ॥ यावदौपयिकज्ञानं न चैतत् प्रतिहन्यते । तेनाप्रतिघविज्ञानव्यपदेशो ऽस्य
लभ्यते ॥ ३२०३॥
एतदाचष्टे - पुरुषार्थोपयोगिषु धर्मादिषु तस्यैव ब्रह्मणो ज्ञानमप्रतिघं प्रवर्त्तते, नान्येषामित्येतद्विशेषख्यापनाय ब्रह्मादेरेव स्वार्थाप्रतिघत्वादप्रतिघाति ज्ञानमुक्तम्, नान्येषाम् । औपयिक
७०७
२. ० वेदवत् — पाठा० ।
४. इत्यत्र - पा०, गा० ।
६. धर्मा..... गोचरम् - पा० ।