________________
७०६
तत्त्वसंग्रहे
तस्य ज्ञानं तेन शून्याः असर्वज्ञा इत्यर्थः । न हि शरीरमात्रदर्शनात् सर्वज्ञ इत्येवमवसातुम् पार्यते; विशिष्टज्ञानसम्बन्धग्रहणानन्तरीयकत्वादस्यावसायस्य । तच्च विशिष्टंज्ञानं सकलपदार्थविषयं साधकम्। सकलपदार्थविषयता तस्य तद्ग्राह्यविषयग्रहणमन्तरेणवासातुं न शक्यते। न हि दण्डिप्रत्ययो दण्डग्रहणमन्तरेण भवति। प्रयोगः-यस्य यद्ग्रहणोपाधिरवग्रहः, तस्य तदुपाधिग्रहणाभावे ग्रहणं न भवति, तद्यथा दण्डग्रहणोपाधिदण्डिग्रहणं न दण्डिरूपाग्रहे भवति। नास्ति च सर्वज्ञज्ञानग्रहणस्य ज्ञेयग्रहणोपाधिज्ञेयरूपोपाधिग्रहणमर्वाग्दर्शिनामिति व्यापकानुपलब्धिः; उपाधिग्रहणेनोपाधिमद्ग्रहणस्य व्याप्तत्वात् । तस्य चेहाभावः । ततश्च तदानीं सन्निहितेनाप्यसर्वविदा येनैव सर्वज्ञो नावधार्यते, तं प्रति सर्वज्ञवाक्यानामपि सतामनिश्चितत्वादप्रामाण्यमेव; मूलस्य प्रामाण्यनिश्चयकारणस्य सर्वज्ञज्ञाननिश्चयस्याभावात्। अन्यवाक्यवदिति । रथ्यापुरुषवाक्यस्येव ॥ ३१९१-३१९२ ।। __अथ मतम्-अशेषशिष्यजनधर्मस्यानेकविधचित्तचरितादिपरिज्ञानाद् देशनादिप्रातिहार्येण विनेयजनमनांस्यावर्जयन्नसावात्मनः सर्वज्ञतामयत्नेन तेभ्यः प्रतिपादयति ? इत्यत्राह
सर्वशिष्यैरपि ज्ञातानर्थान् संवादयन्नपि। न सर्वज्ञो भवेदन्यलोकज्ञातार्थवर्जनात्॥३१९३॥ न च सर्वनरज्ञानज्ञेयसंवादसम्भवः।
कालत्रयत्रिलोकस्थैनरैर्न च समागमः॥३१९४॥ यदि नाम तत्कालसन्निहितकियन्मात्रजनपरिज्ञातानर्थान् परिज्ञातवान्, तथापि न सर्वज्ञो भवति; तत्कालासन्निहितान्यलोकपरिज्ञातस्यार्थस्यापरिज्ञानात्। न ह्येकदेशपरिज्ञानेन सकलज्ञो भवति; अतिप्रसङ्गात् । नापि तत्कालासन्निहिताशेषजनपरिज्ञातार्थसंवादः सम्भवति दूरस्थानामनर्थिनां च संवादाभावात् । स्यादेतत्-यदा सर्व एव, जनास्तथागतं युगपदुपेत्य यद्यत् प्रश्नयन्ति तदा स भगवाँस्तत्तदैव व्याकरोतीत्यतोऽस्त्येव [C.४34] सर्वनरज्ञातज्ञेयसंवाद इत्यत्राह-कालत्रयत्रिलोकस्थैरिति। न ह्यतीतानागतवर्तमानकालवर्त्तिनां नृणां समागमः क्वचिदपि सम्भवी, नापि स्वर्गपातालमात्मकलोकत्रयस्थानाम् । यद्वा-लोकत्रयं कामरूपारूप्यधातुत्रयात्मकं बोद्धव्यम् ॥ ३१९३-३१९४॥
स्यादेतत्-यदि समस्तलोकपरिज्ञातार्थपरिज्ञानसामर्थ्यं तस्य न स्यात्, तदा कियन्मात्रपरिज्ञातार्थसंवादोऽपि कथं स्यात्, भवति च; तेन मन्यामहे-अस्त्येवास्य सकलपदार्थपरिज्ञानसामर्थ्यमिति? अत्राह
किञ्चिज्ज्ञोऽपि हि शक्नोति स्तोकान् भ्रमयितुं नरान्। सर्वज्ञं येन गृह्णीयुस्ते भक्तिभ्रान्तचेतसः॥ ३१९५॥ भुक्तचिन्तितमुष्टिस्थद्रव्यसंवादनक्षमाः ।
केचित् कुहकविज्ञानैर्धर्मादिज्ञानवर्जिताः ॥ ३१९६॥ ११. पा. गा० पुस्तकयोनास्ति।
२. दण्डग्रहणं-पा०। ३. दण्डरूपोपाध्यग्रहे- गा० । ४. तदन्यवाक्य:-जै०।
५ . नरज्ञातः- पा० गा०। ६-६. यन्नाम-पा०, गा० । ७.०स्तदैव-पाल, गाल।
८. रूपारूप०- पाल, गा०/