________________
७०५
अतीन्द्रियार्थदर्शिपरीक्षा भगवतोक्तेन-"सर्वज्ञोऽहं सर्वदर्शी, नास्ति तथागतस्य किञ्चिदज्ञातम्' ( ) इत्यादि, अतस्तद्वचनादेव प्रतीयते? इत्याह
अथ तद्वचनेनैव सर्वज्ञोऽन्यैः प्रतीयते।
प्रकल्प्येत कथं सिद्धिरन्योऽन्याश्रययोस्तयोः ॥३१८७॥ [G.832] एवं सतीतरेतराश्रयादोषः प्राप्नोति ।। ३१८७॥ कथम्? इत्याह
सर्वज्ञोक्ततया वाक्यं सत्यं तेन तदस्तिता।
कथं तदुभयं सिध्येत् सिद्धान्मूलान्तराद् ऋते ॥ ३१८८॥ तथा हि-न तावत् तद्वचनस्य प्रामाण्यं निश्चीयते यावत् 'सर्वज्ञोक्तमेतत्' इत्येवं नावगम्येत, तस्य च सर्वज्ञस्यावगतिस्तत एव वचनादिति व्यक्तमितरेतराश्रयत्वम्। सिद्धान्मूला न्तरादृत इति। निश्चितात् कारणान्तराद् विनेत्यर्थः ॥ ३१८८॥
__ अथापि स्यात्-श्रावकाच्छारिपुत्रादेर्वचनात् सर्वज्ञोऽवसीयते, यतस्तेनोक्तम्"सर्वज्ञोऽयं शाक्यकुलनन्दनः" इति? अत्राह
असर्वज्ञप्रणीतात् तु वचनान्मूलवर्जितात्।
सर्वज्ञमवगच्छन्तः स्ववाक्यात् किं न जानते ॥३१८९॥ न ह्यनासादितप्रमाणभावस्यान्यवाक्यस्य स्ववचनात् कश्चिद्विशेषोऽस्ति, येन बौद्धाः स्ववचनादेव सर्वज्ञं न प्रतिपद्यन्ते, अन्यवचनात् प्रतियन्तीति न किञ्चित् कारणमुत्पश्यामोऽन्यत्र जाड्यात् ॥ ३१८९॥
अथ मतम्-अपरिमितास्तथागता अभूवन्, भविष्यन्ति च; ततश्चैकस्य तदन्यवचनात् सर्वज्ञताऽवसीयते, अंन्यस्याप्यन्यवचनात्? इत्यत्राह
सर्वज्ञा बहवः कल्प्याश्चैकसर्वज्ञसिद्धये।
य एवैकोऽप्यसर्वज्ञः स सर्वज्ञं न बुद्ध्यते॥३१९०॥ एकसर्वज्ञसिद्धये सर्वज्ञपरम्परामनुसरत: सकलपुरुषायुषसंक्षयेऽपि नार्वाग्दर्शनस्य सर्वज्ञनिश्चोत्पत्तिसम्भव इति. सर्वज्ञाः कल्प्या प्रसज्येरन् ॥ ३१९० ॥
अपि च-आस्तां तावदिदं यदिदानीन्तनाः सर्वज्ञमसन्निहितं बोद्धुमसमर्था' इति, अपि तु तत्कालसन्निहिता अपि तं ज्ञातुं न शक्नुवन्त्येवासर्वविद इत्येतद् दर्शयन्नाह
सर्वज्ञोऽयमिति ह्येवं तत्कालैरपि बोद्धृभिः। तज्ज्ञानज्ञेयविज्ञानशून्यैर्ज्ञातुं न शक्यते॥३१९१॥ सर्वज्ञो नावबुद्धश्च येनैव स्यान्न तं प्रति।
तद्वाक्यानां प्रमाणत्वं मूलाज्ञानेऽन्यवाक्यवत्॥३१९२॥ [G.833] तस्य सर्वज्ञस्य ज्ञानं तज्ज्ञानम्, तदेव ज्ञेयम्=परिच्छेद्यं यस्य विज्ञानस्य तत् तथा। तच्च तद्विज्ञानं चेति तथोक्तम्, तेन शून्या:-रहिताः । अथ वा-तज्ज्ञानस्य यद्विषयं १. छावकच्छारि०-गा।
२. जायते-जै०, पा०। ३. मसर्था-पा०।
३-३. सर्वज्ञज्ञानं-पा०।