________________
७०४
तत्त्वसंग्रहे
प्रत्यक्षं त्रिविधम्-इन्द्रियज्ञानम्, मानसम्, सर्वचित्तचैत्तानामात्मसंवेदनं चेति। तदेतत् त्रिविधमपि न सर्वज्ञमवगमयितुमलम्; अतद्विषयत्वात् । इन्द्रियज्ञानं हि रूपादिविषयपञ्चकनियतम्, अतो न तेन परसन्तानसमवायिनो बुद्धिधर्मा विषयीक्रियन्ते । नापि मानसेन; तस्य इन्द्रियज्ञानपरिगृहीतविषयानन्तरविषयग्राहित्वेनेन्द्रियज्ञानवत् प्रतिनियतरूपादिविषयत्वात्। नापि स्वसंवेदनेन; तस्य स्वसन्तानवर्त्तिवर्त्तमानचित्तचैत्तविषयत्वाद्, अतो न तेन परसन्तानवर्त्तिनः स्वसन्तानिकाश्चानागताश्चेतोधर्माः शक्यन्ते वेदयितुम्। योगिज्ञानस्यैव च साध्यत्वान्न तेन ग्रहणाग्रहणचिन्ताऽवतरति।
(२) नाप्यनुमानेन, तद्धि त्रिविधलिङ्गसमाश्रयमिष्यते सौगतैः। तत्र [G.831] विधिसाधनस्यात्राधिकारान्नानुपलब्धिस्तावदिहाधिक्रियते, नापि कार्यम्; प्रत्यक्षानुपलम्भसाधनत्वात् कार्यकारणभावस्य विप्रकर्षिणा सर्वज्ञेन सह कस्यचित् कार्यकारणभावासिद्धेः। स्वभावोऽपि हेतुर्न सर्वदर्शिनः सत्तां साधयति; तदप्रत्यक्षत्वे स्वभावस्य तदव्यतिकिणो ग्रहीतुमशक्यत्वात्। तस्माद् दृष्टः प्रसिद्धो लिङ्गभूत एकदेश:=पक्षधर्म;, स न सम्भवति, निरूप्यमाणो यः सर्वज्ञमनुमापयेत्।
____किञ्च- सर्वज्ञसत्तासाधने सर्वो हेतुस्त्रयीं दोषजातिं नातिवर्त्तते- असिद्धिम्, विरुद्धत्वम्, अनैकान्तिकत्वं च। तथा हि-हेतुरुच्यमानो भावधर्मो वाऽभिधीयेत, अभावधर्मो वा, यद्वोभयधर्म:-इति पक्षत्रयम्। तत्र सर्वज्ञे धर्मिणि न भावधर्मः प्रतिवादिप्रसिद्धः सम्भवति; तस्यैव धर्मिणः साध्यत्वेनासिद्धत्वात्, सिद्धौ वा अविवादप्रसङ्गात्। यो हि भावधर्म तत्रेच्छति स कथं वादी तं भावं नेच्छेत्; निराश्रयस्य धर्ममात्रस्य ग्रहीतुमशक्यत्वात् । नाप्यभावधर्मो हेतुः सर्वज्ञसिद्धये युक्तः; तस्य भावविपरीतसाधकत्वेन विरुद्धत्वात्। नाप्युभयधर्म; तस्यानैकान्तिकत्वात्। कथं हि नाम भावाभावधर्मो भावधर्मसिद्धावभावाख्यविपक्षवृत्तिव्यवच्छेदलभ्यं भावादव्यभिचारित्वलक्षणं हेतुत्वमनुभवेत्। तस्मात् त्रिप्रकारोऽप्येकदेशो लिङ्गभूतो नास्त्यनुमापक इति नानुमानतः सर्वज्ञस्य सिद्धिः ॥ ३१८५ ॥ (३) शब्दादपि न सर्वज्ञावसायोऽस्तीति दर्शयति
न चागमविधिः कश्चिनित्यसर्वज्ञबोधकः।
कत्रिमेण च सत्येन स कथं प्रतिपाद्यते॥३१८६॥ शब्दादसन्निकृष्टेऽर्थे यज्जायते ज्ञानं तच्छाब्दम्, तच्च द्विविधम्-नित्यशब्दजनितम्, पौरुषेयध्वनिहेतुकं च । तत्र तथाविधस्य सर्वज्ञप्रतिपादकस्यागमस्य नित्यस्याभावान्न तावदाद्यं सम्भवति । यच्चोपनिषदादौ पठ्यते-"यः सत्यवाक् सत्यसङ्कल्पः सत्यकामः सोऽन्वेष्टव्यः, विजिज्ञासितव्यः'' ( ) इत्येवमादि, सोऽप्यर्थवादो द्रष्टव्यः । यच्च पौरुषेयं वचनमुच्यते"स भगवाँस्तथागतोऽर्हन् सम्यक्सम्बुद्धः'' (दी० नि० १.२.१) इत्ति, तस्याप्रमाणत्वात् कथं तेनासत्येन स प्रत्याय्येत ॥ ३१८६ ॥
स्यादेतत्-न यत:कुतश्चिद् वचनात् सर्वज्ञोऽस्माभिः प्रतीयते। किं तर्हि ? तेनैव १. प्रत्यक्षोपलम्भ०-- गा०। २. साध्यत्वेन सिद्धo- गा०। ३. वादं– पा०, गा० । ४, भावाद् व्यभि०-- पा०, भावाव्यभि०- गा० ।
५. बोधनः-पाठा०।