SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ अतीन्द्रियार्थदर्शिपरीक्षा ७०३ यथा शौद्धोदनेः, तद्वाक्यस्य चाप्रामाण्यम्; तथा अन्येषां कनककाश्यपादीनां तद्वचसां चेति ॥३१७८ ॥ ईदृशां पुद्गलानां च कल्प्यमानाप्यनादिता। अप्रामाण्यपदस्थत्वान्न तस्मादतिरिच्यते॥३१७९॥ ततश्चेदृशां पुद्गलानां तद्वाक्यानां चानादिता कल्पितापि सती न' तस्मादप्रामाण्यादतिरिच्यते-दूरीभवति; अप्रामाण्यपद एव स्थितत्वात् ॥ ३१७९ ॥ अतोऽनादित्वसामान्यं बुद्धानमभिधीयते। मीमांसकायमानैस्तैर्यद् वेदाध्यायिनामिव॥३१८०॥ तदज्ञानविशेषत्वान्न तेयां याति तुल्यताम्। ___ प्रमाणत्वाप्रमाणत्वे स्यातामेवं ह्यनादिनी॥३१८१॥ तत्र यदि नामानादित्वमात्रेण बुद्धादेर्वेदाध्यायिभिः सह साम्यमुपवर्णितम्, तथापि नानादित्वात् प्रामाण्यं सिध्यति; प्रामाण्याप्रामाण्ययोरनादित्वाविरोधात्। केवलं वेदाध्यायिनां बुद्धादीनां च प्रमाणत्वाप्रमाणत्वे यथाक्रममनादिनी स्याताम् । न तु द्वयोरनादित्वात् प्रमाणत्वमेव वा, अप्रमाणत्वमेव वा सिध्यतीति समुदायार्थः ॥ ३१८०-३१८१॥ एतदेव दृष्टान्तेन स्पष्टीकुर्वनाह ये प्रमाणतदाभासगुणदोषा ह्यनादयः। न तेऽनादित्वमात्रेण सर्वे गच्छन्ति तुल्यताम्॥३१८२॥ सुवर्ण व्यवहाराङ्गमनाद्यन्तं यथास्थितम्। .. मायासुवर्णमप्येवमिति किं तेन तत्समम् !॥३१८३॥ [G.830] प्रमाणतदाभासयोर्गुणदोषा इति विग्रहः ॥ ३१८२-३१८३ ॥ इदानीमभावप्रमाणविषयीकृतविग्रहस्यासिद्धतापरिहारेण सर्वज्ञस्याभावं प्रसाधयन् वेदस्य ततो विशेषमाह__.. सर्वज्ञत्वं च बुद्धादेर्या च वेदस्य नित्यता। तुल्ये जल्पन्ति ये तेभ्यो विशेषः कथ्यतेऽधुना॥३१८४॥ तुल्ये जल्पन्तीति । सम्यक् प्रतिपत्तिहेतुत्वेन द्वयोरपि साम्यात्-नित्यवेदद्वारेण चातीन्द्रियार्थप्रतीतिः, सर्वज्ञवचनद्वारेण चेति न कश्चिद् विशेष इति य एवं जल्पन्ति,तेभ्य एवंवादिभ्यो वेदस्य विशेषः कथ्यते ॥ ३१८४॥ तथा हि-सर्वदर्शी प्रत्यक्षानुमानशाब्दोपमानार्थापत्तीनां मध्ये नैकेनापि प्रमाणेन सिद्धः, . तत् कथमभावप्रमाणग्रासीकृतमूर्तेरसतस्तस्य प्रमाणभूतेनागोपालाङ्गनादिप्रतीतेन वेदेन साम्यं भविष्यतीति मन्यमानः सर्वज्ञ इत्यादिना प्रत्यक्षादिप्रमाणपञ्चकप्रसिद्धतामस्य निराकरोति . सर्वज्ञो दृश्यते तावन्नेदानीमस्मदादिभिः। दृष्टो न चैकदेशोऽस्ति लिङ्गं वा योऽनुमापयेत्॥३१८५॥ (१) न तावत् प्रत्यक्षेणास्मदादिभिरर्वाग्दर्शनैः सर्वज्ञो दृश्यते, तथा हि-अर्वाग्दर्शिनः १. पा० पुस्तके नास्ति। २. विग्रहत्वास्याः -गा। ३३.भाव पसाधयन-पा।
SR No.002259
Book TitleTattvasangraha Part 02
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages450
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy