________________
७०२
किञ्च–सर्वज्ञेन सताऽवश्यमतीतानागतं वस्तु ज्ञातव्यम्, अन्यथा हि प्रत्युत्पन्नमात्रपरिज्ञाने प्रदेशज्ञः स्यात् न सर्वज्ञः, न चानागतादिपरिज्ञानं सम्भवतीति दर्शयन्नाह - अनागतेन दृष्टं च प्रत्यक्षस्य मनागपि ।
सामर्थ्यं नानुमानादिजन्म लिङ्गादिभिर्विना ॥ ३१७३ ॥
प्रत्यक्षस्य वस्तुसामर्थ्यबलेनोत्पत्तेरनागतस्य चावस्तुत्वान्न तत्र प्रत्यक्षव्यापारः । नाप्यनुमानस्य; लिङ्गाभावात् । न ह्यनागतवस्तुसम्बद्धं क्वचिद् विदितं लिङ्गमस्ति; अनागतस्याभावात् । आदिशब्देन दृष्टान्त परिग्रहः । अनागतग्रहणमुपलक्षणम्, अतीतस्यापि ग्रहणं द्रष्टव्यम् । यतस्तत्राप्यवस्तुतया न प्रत्यक्षव्यापारोऽस्ति । तस्मात् सिद्धा प्रमेयत्वादेर्हेतुगणस्य व्याप्तिः । अत एव पूर्वोक्तस्य 'अभावप्रमाणविषयीकृतविग्रहत्वात्' इत्येतस्य हेतोर्व्याप्तिरुक्ता भवति ॥ ३१७३ ॥
तदेवं हेतूनां व्याप्तिं प्रसाध्योपसंहरन्नाह'
तत्त्वसंग्रहे
तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टा न विद्यते ।
वचनेन तु नित्येन यः पश्यति स पश्यति ॥ ३१७४ ॥
स्यादेतत्[-न नित्येनैव वचनेन सर्वं पश्यति । तथा हि- कनककाश्यपमुनिप्रभृतिप्रणीताद् वाक्याच्छाक्यमुनिः पश्यति, ततोऽप्यन्य इति ? अत्राह - एतदक्षममाणो यः पौरुषेयागमान्तरात् ।
अतीन्द्रियार्थविज्ञानं बुद्धादेरपि मन्यते ॥ ३१७५ ॥
.
तस्य तेनैव तुल्यत्वात् तद्वाक्यस्याप्रमाणता ।
पुरुषस्य च वक्तव्या पूर्वोक्तैरेव हेतुभिः ॥ ३१७६ ॥ एतत्=अनन्तरोक्तम्–“वचनेन तु नित्येन यः पश्यति स पश्यति' इति, असहमानो य एवं मन्यते बौद्धादिः–“न नित्येन वचनेन सर्वं पश्यति, किन्तु पुरुषान्तरकृतेन, तद्यथा कनककाश्यपादिप्रणीतेनागमेन शाक्यमुनिः" इति, तस्यैवंवादिनस्तद्वाक्यस्याप्रमाणता [G.829] वक्तव्या । तस्य पुरुषान्तरस्य वाक्यं तद्वाक्यम् तेनैव दृष्टाभिमतपुरुषवाक्येन तुल्यत्वात् कारणात्। पुरुषस्य चागमकर्तुरप्रमाणता वक्तव्येति पुरुषकृतेन सम्बन्धः । कथम् ? पूर्वोक्तैर्ज्ञेयप्रेमयत्वादिभिर्हेतुभिः ॥ ३१७५-३१७६ ॥
१. प्रशाव्योपo - पा० ।
३. ०युक्तपरम्परा०- पा०, गा० ।
ननु चानादिर्बुद्धपम्परा, तत्प्रणीतोऽपि सिद्धान्तोऽनादिरेव, ततश्च वेदाभियुक्तपुरुषपरम्परावद्, वेदवच्चानयोरप्यनादित्वाददोषत्वमेव ? इत्यत्राहकर्तृकृत्रिमवाक्यानामुच्यते या त्वनादिता ।
अप्रमाणद्वयाधारा न सा प्रामाण्यसाधनी ॥ ३१७७ ॥ एतदेव दर्शयन्नाह—
न शौद्धोदनिवाक्यानां पारतन्त्र्यात् प्रमाणता । अपश्यतः स्वयं धर्मं तथा शौद्धोदनेरपि ॥ ३१७८ ।।
२. पा०, गा०, पुस्तकयोर्नास्ति ।