SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ प सागर. . अतीन्द्रियार्थदर्शिपरीक्षा ७०१ तथाहि-यदि नाम केचिदुपचितश्लेष्मवपुषो हस्तमात्रव्योमोत्प्लवनासमर्थाः पश्चादभ्यासक्रमेण समासादितगात्रलाघवा दशहस्तान्तरगगनविलडिनो जाताः, तथापि न ते योजनमेकमपि खगपथमुत्पतितुं समर्थाः प्रयत्नशतेनापि भवन्ति ॥ ३१६७॥ तस्मादित्यादिनोपसंहरति तस्माद् अतिशयज्ञानैरतिदूरगतैरपि। किञ्चिदेवाधिकं ज्ञातुं शक्यते न त्वतीन्द्रियम्॥३१६८॥ ..[G.827] अतिशयेन प्रकर्षेण ज्ञानानि अतिशयज्ञानानि, 'तृतीया' (पा० सू० २.१.३०) इति योगविभागात् समासः, तैरिति करणतृतीया॥३१६८॥ एतदेव स्पष्टीकुर्वन्नाह एकापवरकस्थस्य प्रत्यक्षं यत् प्रवर्त्तते। शक्तिस्तत्रैव तस्य स्यानैवापवरकान्तरे॥३१६९॥ ये चार्था दूरविच्छिन्ना. देशपर्वतसागरैः। - वर्षद्वीपान्तरैर्ये वा कस्तान् पश्येदिहैव सन्॥३१७०॥ वर्षम् लोकविशेषः । यथा भारतलोक: 'भारतवर्षम्' इत्युच्यते ॥३१६९-३१७० ॥ अन्यैरप्यत्रास्माकं स्वहस्तो दत्त इति दर्शयन्नाह नलर्तुपर्णयोश्चासावश्वाक्षहृदयज्ञयोः । संवाहे गच्छतोर्वाक्यमृतुपर्णेन भाषितम्॥३१७१॥ संवाह इति रथे। तथा हि किल श्रूयते-नलो नाम राजा बभूव।स किलाक्षहृदयानभिज्ञतया सकलमेव राज्यं द्यूतेन हारयमास। तस्य च राज्ञी दमयन्ती नाम बभूव। सोऽपहृतसकलराज्यस्तया देव्या केवलया सार्धमरण्यमुपजगाम। तत्रागतस्यापि तत्र दैववशात् तया राज्ञा सह वियोगोऽभूत् । सोऽतीव समुपजातप्रियाविरहशोकाश्रुदुर्दिनवदनश्चिन्ताजलधिमवगाहमानोऽतिशयसञ्जातशरीरक्रशिमा परिभ्रमन् इतस्ततः कथमपि संक्षेपाद् ऋतुपर्णस्य राज्ञोऽनुजीविवृत्तिमास्थायाविदितस्थितोऽभूत्। सा च तस्य राज्ञी कथं कथमपि पितृगृहमनुप्राप्ता बभूव। तस्याश्च पिता तत्स्वामिनस्तत्रागमनाय सर्वदेशेषु दमयन्त्याः स्वयंवरमुद्धोषयामास । श्रुतमृतुपर्णेन राज्ञा-यथा किल दयन्ती स्वयंवरेति । स श्रुत्वा नलेन सारथिना तत्र गन्तुमभिप्रतस्थे। ऋतुपर्ण-श्चाक्षहृदयज्ञः, नाश्वहृदयवेदी; नलस्त्वश्वहृदयज्ञः, नाक्षहृदयाभिज्ञः । परिज्ञातमृतुपर्णेन-यथाऽयमश्वहृदयज्ञ इति। स ज्ञात्वा तेनाभ्यधायि-'भोः! कथय मेऽश्वहृदयम्' इति। नलोऽप्यभिहितवान्-"कथयामि यदि नाम त्वमप्यक्षहृदयं कथयसि" इति। [G.828] तत इदमृतुपर्णेन कीर्त्तितम् . "सर्वः सर्वं न जानाति सर्वज्ञो नोपपद्यते। नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे क्वचित्"॥३१७२॥ ___ ततो नलेन राज्ञाऽक्षहृदयमृतुपर्णतो विदित्वा पुनरपि तद्राज्यं जित्वा प्रत्यानीतमिति वार्ता (म० भा०, व० प० ७२.८) ॥ ३१७१-३१७२ ॥ .१-१. तृतीयेऽपि- पा०।
SR No.002259
Book TitleTattvasangraha Part 02
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages450
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy