SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ ७०० तत्त्वसंग्रहे निपुणबुद्धिगम्यतया सूक्ष्मानर्थानुपलब्धुं समर्थोऽपि स्वजाती:=मनुष्यजातिभाविनी: प्रकृतीरदिव्यचक्षुष्ट्वादिलक्षणा अनतिवर्तमान एताभ्यां नरानतिशयानो दृश्यते, न तु दिव्यचक्षुष्वादिना युक्तः कश्चिद् दृश्यते इति यावत् । ततश्च-"स पश्यति दिव्येन चक्षुषा सुविशुद्धेनातिक्रान्तमानुष्यकेन सत्त्वान्सुगतिमपि गच्छतो दुर्गतिमपि गच्छतः" (दी० नि० १.२.५) इत्यादि यद् बौद्धैरुद्धोष्यते, लत्किल नोपपद्यत इति भावः ॥ ३१५९-३१६० ॥ - भवतु नामाभ्यासादिभिरतिशयः सर्वासां बुद्धीनाम्, तथाप्येता अविलचितस्वविषयसीमान एव सत्योऽतिशेरत' इति विस्तरेण प्रतिपादयन्नाह श्रोत्रगम्येषु शब्देषु दूरसूक्ष्मोपलब्धिभिः। पुरुषातिशयो दृष्टो न रूपाद्युपलम्भनात्॥३१६१॥ चक्षुषापि च दूरस्थसूक्ष्मरूपप्रकाशनम्। क्रियतेऽतिशयप्राप्त्या न तु शब्दादिदर्शनम् ॥३१६२॥ [G.826] दूरसूक्ष्मेषूपलब्धयः-ज्ञानानि, ताभिरिति "इत्थम्भूतलक्षणे" (पा० सू० २.३.२१) तृतीया, क्वचिद् दूरसूक्ष्मोपलब्धित इति यावत्, ततो हेतौ पञ्चमी विधायाद्यादित्वात्तसिः (पा० सू० वा० ५.४.४४) विधेयः। न तु शब्दादिदर्शनम्, चक्षुषा क्रियत इति सम्बन्धः ॥ ३१६१-३१६२॥ एतावतेन्द्रियधियां स्वविषयमर्यादानतिक्रमो दर्शितः, साम्प्रतं मनोविज्ञानस्याभ्यस्यमानविषयानतिक्रमेणैवातिशयो दृश्यते इति प्रतिपादयति एवं शास्त्रविचारेषु दृश्यतेऽतिशयो महान्। न तु शास्त्रान्तरज्ञानं तन्मात्रेणैव लभ्यते॥३१६३॥ एतदेव स्पष्टयन्नाह ज्ञात्वा व्याकरणं दूरं बुद्धिः शब्दापशब्दयोः। प्रकृष्यते न नक्षत्रतिथिग्रहणनिर्णये॥३१६४॥ ज्योतिर्विच्च प्रकृष्टोऽपि चन्द्रार्कग्रहणादिकम् । न भवत्यादिशब्दानां साधुत्वं ज्ञातुमर्हति॥३१६५॥ तथा वेदेतिहासादिज्ञानातिशयवानपि। न स्वर्गदेवताऽपूर्वप्रत्यक्षीकरणक्षमः ॥३१६६॥ ज्योतिर्वेत्तीति ज्योतिर्वित्। वेदेतिहासादिषु ज्ञानानि तेषामतिशयः स विद्यते यस्येति विग्रहः । अपूर्वशब्देन धर्माधर्मावुच्यते ॥ ३१६४-३१६६ ॥ ___ किञ्च-स्वविषयमर्यादातिक्रमेणाप्यतिशयो भवन्नात्यन्तप्रकर्षनिष्ठां गच्छति, अपि तु कियन्मात्रविशेषावधिरेव दृश्यत इत्येतद् दर्शयन्नाह दशहस्तान्तरं व्योम्नो यो नामोत्प्लुत्य गच्छति। ; न योजनमसौ गन्तुं शक्तोऽभ्यासशतैरपि ॥३१६७॥ १. सत्यातिशेरते-जै०। २. ०दर्शनम्-पा०, गा०। ३. तस्मान्मात्रेणैव-गा। . ग्रहणादिवित्-गा। ५. सर्गदेवता०-पा०, गा० ।
SR No.002259
Book TitleTattvasangraha Part 02
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages450
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy