________________
अतीन्द्रियार्थदर्शिपरीक्षा नूनं स चक्षुषा सर्वान् रसादीन् प्रतिपद्यते ॥३१५७॥ यस्य हि ज्ञेयत्वादयः स्मपक्षविपक्षसाधारणत्वेनाप्रतीता अपि सन्तो बाधका भवन्ति, सोऽत्यन्तासम्भवीति न प्रेक्षावताऽभ्युपेयः। तथा हि शक्यमिदं वक्तुम्-सुगतोऽसर्वज्ञः, ज्ञेयत्वप्रमेयत्ववस्तुत्वसत्त्ववक्तृत्वपुरुषत्वादिभ्यः, रथ्यापुरुषवदिति । न चाप्येतेऽनैकान्तिका भवन्ति। तथा हि-सर्वपदार्थज्ञानात् सर्वज्ञ इष्यते, तच्च सकलवस्तुपरिज्ञानं कदाचिदिन्द्रियज्ञानेन वा भवेत्, मनोज्ञानेन वा? न तावदिन्द्रियज्ञानेन; तस्य प्रतिनियतार्थविषयत्वादयुक्तमशेषार्थविषयत्वम्। तथा हि-चक्षुरादिज्ञानानि प्रतिनियतविषयग्रहणस्वभावान्येव स्वकारणैरिन्द्रियैर्नियामकैर्जनितानि, ततश्चानतिक्रान्तस्वविषयमर्यादानि लोकेऽतिप्रतीतानीति न युक्तमेतैरशेषार्थग्रहणम्; अन्यथा ह्यनेकेन्द्रियवैयर्थ्यप्रसङ्गः स्यात्। ततश्चैकेनैव ज्ञानेन सर्वधर्मान् भिन्नेन्द्रियग्राह्यानपि रसरूपादीन् जानातीत्येवं येन बौद्धन कल्प्यते, "एकेन सर्वं जानाति सर्वमेकेन पश्यति" इति वचनानूनं स वादी बौद्धश्चक्षुषा करणभूतेन तद्द्वारभूतेन ज्ञानेन सर्वधर्मान् रसादनवगच्छतीति प्राप्तम्। न चैतच्छक्यते वक्तुम्-मा भूदेकेन ज्ञानेन युगपदशेषार्थस्य ग्रहणम्, अनेकेन भविष्यतीति; यतो युगपदनेक-विज्ञानासम्भवात्। सम्भवेऽपि न सर्वपदार्थग्रहणमस्ति; परचित्तस्येन्द्रियज्ञानाविषयत्वात्, अगोचरप्राप्तस्य च दूरसूक्ष्मव्यवहितादेरर्थस्य तेन ग्रहीतुमशक्यत्वात् ॥ ३१५६-३१५७॥
स्यादेतत्-यदि नाम चक्षुरादिज्ञानानां विजातीयार्थग्रहणमिदानीं न दृश्यते तथापि [G.825] कालान्तरे कदाचिद् विजातीयार्थग्रहणमभूत् कस्यचिदिति सम्भाव्यते? इत्याह
यज्जातीयैः प्रमाणैस्तु यज्जातीयार्थदर्शनम्। . : दृष्टं सम्प्रति लोकस्य तथा कालान्तरेऽप्यभूत् ॥३१५८॥
हेतुप्रतिबद्धो हि भावानां स्वभावप्रतिनियमः, नाकस्मिकः; अन्यथा सर्वस्य सर्वस्वभावत्वप्रसङ्गः, ततश्च तथाविधहेतुप्रतिबद्धात्मलाभस्य कथमन्यथात्वं कदाचिदपि सम्भाव्यम् । न हि धूमकेतुप्रतिबद्धात्मसंस्थितेरन्यतो धूमस्योद्भवः सम्भाव्यत इति भावः।
नापि मनोज्ञानेनेति पक्षः। तथा हि-यद्यपि तत् सर्वार्थविषयम्, तथापि न तस्य स्वातन्त्र्येणार्थग्रहणव्यापारोऽस्ति; अन्धबधिराद्यभावप्रसङ्गात्। पारतन्त्र्ये चेन्द्रियज्ञानपरिगृहीतार्थविषयत्वाद् दूरसूक्ष्मव्यवहितपरचित्तादेरर्थस्येन्द्रियज्ञानाविषयीकृतस्य तेन परिच्छेदो न प्राप्रोति ॥ ३१५८॥ -
स्यादेतत्-प्रज्ञादीनामभ्यासात् प्रतिपुरुषं तारतम्यभेददर्शनादत्यन्तप्रकर्षोऽपि सम्भाव्यते? इत्यत्राह
येऽपि सातिशया दृष्टाः प्रज्ञामेधाबलैनराः। स्तोकस्तोकान्तरत्वेन न त्वतीन्द्रियदर्शनात्॥३१५९॥ प्राज्ञोऽपि हि नरः सूक्ष्मानर्थान् द्रष्टुं क्षमोऽपि सन्।
स्वजातीरनतिक्रामन्नतिशेते परान् नरान्॥३१६०॥ न हि कस्यचिदभ्यासेऽप्यतीन्द्रियार्थदर्शित्वमुपलब्धम् । तथा हि-नरोऽतिप्राज्ञोऽपि १. पा०, गा०, पुस्तकयोनास्ति।
२. ० ज्ञानं विषयी०-पा०।