________________
६९८
तत्त्वसंग्रहे एव। न ह्यनल्पं प्रलपताम् न किञ्चित् सत्यार्थं भवेत्, यथोक्तम्-"न ह्येकं नास्ति सत्यार्थं पुरुषे बहुभाषिणि" ( ) इति। ततश्च तुल्यहेतुतः सर्वेषामेव विशेषानवधारणात् सर्वज्ञता प्राप्नोति, न चैतद्युक्तम्; 'परस्परविरुद्धार्थोपदेशात्' इति पूर्वमुक्तत्वात् ।। ३१४९ ॥
___ अथापि स्यात्-यस्य वचनं सर्वत्र प्रमाणैर्निवार्यमाणं व्याहर्तुं न पार्यते, स एव सर्वज्ञो भविष्यति? इत्याह
येनैव हेतुनैकस्य सर्वज्ञत्वं प्रसाध्यते। स्वपक्षप्रीतिमात्रेण सोऽन्यस्याप्युपतिष्ठते॥३१५० ॥ दूषणानि ससंरम्भाः सर्वज्ञजिनसाधने। ... शाक्या यान्येव जल्पन्ति जैनास्तान्येव युञ्जते॥३१५१॥ तत्रानवस्थितैस्तेषां भिन्नैः साधनदूषणैः।
प्रतिबिम्बोदयग्रस्तैर्निर्णयः क्रियते कथम् ?॥३१५२॥ यो हि हेतुः सुगतसर्वज्ञसाधनायोपादीयते' सुगतसुतैः, यथा-साक्षाद् विदितसकलार्थतत्त्वः सुगतः, अश्रुताननुमिताविपरीतार्थोपदेष्टुत्वात्, यथा प्रत्यक्षावगतसलिलादिस्तदुपदेष्टेति; अयमेव च दिगम्बराणां जिनसर्वज्ञसाधनाय हेतुरुपतिष्ठते, ततश्च तदवस्थ एव सन्देहः । तथा जिनसर्वज्ञसाधानाय दिगम्बरैःसाधने कृते यानि दूषणानि शाक्यैरुपादीयन्तेतदुपदिष्टानां स्याद्वादादीनामयोगान्नासौ सर्वज्ञ इति, तानि शाक्यैः सुगतसर्वज्ञसाधने कृते जैना अप्युपाददते-नासौ सर्वज्ञः; तदुपदिष्टानां क्षणभङ्गादीनामयोगादिति । ततश्च यथा बिम्बसन्निधानानन्तरं प्रतिबिम्बोदयः, एवमेषां साधनदूषणानन्तरं परस्परप्रत्यनीकभूतानि साधनदूषणान्युपतिष्ठन्त इति तत् कथमेभिः साधनदूषणैरनवस्थितैः प्रतिबिम्बोदयेनैव ग्रस्तैर्निर्णयः क्रियते कस्यचित् सर्वज्ञत्वेन ॥ ३१५०-३१५२॥
स्यादेतत्-यस्य न केनचित् परमार्थतो दूषणं शक्यते कर्तुम्, स एव सर्वज्ञत्वेन विज्ञास्यते? इत्याह
एवं सर्वज्ञकल्पेषु निहतेषु परस्परम्।
अल्पशेषीकृतान् सर्वान् वेदवादी हनिष्यति॥३१५३॥ [G.824] आत्मानमुत्कर्षयन्नाह
यथा नकुलदन्ताग्रस्पृष्टा या काचिदौषधिः । सर्वं सर्पविषं हन्ति क्रीडद्भिरपि योजिता ॥३१५४॥ वेदवादिमुखस्यैवं युक्तलौकिकवैदिकी।
या काचिदपि शाक्यादिसर्पज्ञानविषापहा॥३१५५ ॥ का पुनरसौ या काचिद्युक्ति:? इत्याह
यस्य ज्ञेयप्रमेयत्ववस्तुसत्त्वादिलक्षणाः। निहन्तुं हेतवः शक्ताः को नु तं कल्पयिष्यति !॥३१५६॥
एकेनैव प्रमाणेन सर्वज्ञो येन कल्प्यते। १. प्रजल्पतां-गा। २. सुगतसर्वज्ञता०-गा। ३. पा०, गा०, पुस्तकयो स्ति। ४. जिनसर्वज्ञता०-गा० ।