SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ सजा अतीन्द्रियार्थदर्शिपरीक्षा ६९७ शिक्षा कल्पो व्याकरणं छन्दो निरुक्तं ज्योतिषमिति, प्रत्यङ्गानि तदवयवा धात्वादयः । आदिशब्देन तत्परिकरस्य भाष्यादेः परिग्रहः । एषामर्थः=अभिधेयः, तस्य बोधनम् प्रतिपादकं वचनं यतत्तथाभूतं वाक्यं बुद्धादेर्न दृश्यते, यद् वेदाधुपदिष्टमर्थं प्रतिपादयतीत्यर्थः । न हि कस्यचिदखिलपदार्थराशिप्रतिषादकशास्त्रप्रणयनं दृश्यते; सर्वशास्त्राणां भिन्नाभिधेयत्वदर्शनात् ॥ ३१४५ ॥ [G.822] अथापि स्यात्-कियन्मात्रपदार्थोपदेशदर्शनात् बुद्धादेरन्योऽपि स्वग्रन्थानुपदिष्टोऽर्थो विज्ञातत्वेनानुमास्यते; परिज्ञानशक्तिदर्शनात्, ततश्च तदवस्थ एव दोषः? इत्याह स्वग्रन्थेष्वनिबद्धोऽपि विज्ञातोऽर्थों यदीष्यते। सर्वज्ञाः कवयः सर्वे स्युः स्वकाव्यनिबन्धनात्॥३१४६॥ यदि ग्रन्थेषु अनिबद्धोऽपि अनुपदिष्टोऽपि योऽर्थः स तैर्विज्ञात इष्यते, अनुमानबलात्, तदा स्वोत्प्रेक्षितकथाप्रबन्धकारिणोऽपि कवयः परिज्ञानशक्तिदर्शनात् सर्वज्ञाः कल्प्याः स्युः, अविशेषादित्यनैकान्तिकता हेतोः॥३१४६॥ स्यादेतद्-बुद्धादीनामतीन्द्रियपदार्थोपदेशो दृश्यते, न तु कवीनाम, तेन तेषामेवाशेषातीन्द्रियार्थपरिज्ञानमनुमीयते, नान्येषाम्। अन्यथा हि यस्याशेषातीन्द्रियार्थपदार्थपरिज्ञानसामर्थ्य नास्ति, तस्य कियन्मात्रातीन्द्रियार्थपरिज्ञानमपि न स्याद्, अविशेषात् । तेनातीन्द्रियार्थपरिज्ञातृत्वे सतीति सविशेषणत्वाद्धेतो कविभिर्व्यभिचारः? इत्याशङ्कयाह सर्वज्ञेषु च भूयस्सु विरुद्धार्थोपदेशिष। . तुल्यहेतुषु सर्वेषु को नामैकोऽवधार्यताम्॥३१४७॥ बहुतरेषु सुगत-कपिल-कणभक्षाक्षपादादिषु तद्भक्तैः सर्वज्ञत्वेनोपकल्पितेषु साध्येषु कतम एकोऽत्र सर्वज्ञत्वेनावधार्यताम् निश्चीयताम्; सर्वेषामतीन्द्रियार्थोपदेष्टुत्वस्य सर्वज्ञनिश्चयहेतोस्तुल्यत्वात्। न च सर्व एव सर्वज्ञा इत्यवधारयितुं युक्तम्; सर्वेषां परस्परविरुद्धार्थोपदेष्टुत्वात्। न हि परस्पराहतोपदेष्टार: सर्व एव तत्त्वदर्शिनो युक्ताः; वस्तूनामेकरूपत्वेन परस्परविरुद्धानेकस्वभावसंसर्गाभावात् ॥ ३१४७॥ सुगत एकोऽवधार्यत इति चेद्? आह___... सुगतो यदि सर्वज्ञः कपिलो नेति का प्रमा। - अथोभावपि सर्वज्ञौ मतभेदस्तयोः कथम्?॥३१४८॥ द्वावपि तर्हि सर्वज्ञौ भवेतामिति चेद् ? आह-अथोभावपीत्यादि।।३१४८॥ अथापि स्यात्-यस्य वचनं सत्यार्थमुपलब्धमेकदा, तस्यैवाविपरीताशेषपदार्थतत्त्वपरिज्ञानमनुमीयते? इत्याह गणितायेकदेशे तु सर्वेषां सत्यवादिता। जिनबुद्धादिसत्त्वानां विशेषो नावधार्यते॥३१४९॥ [G.823] सर्वेषां हि जिनबुद्धादीनां देहिनां गणितायेकदेशेषु क्वचिदविसंवादि वचो दृश्यत १. नानुमीयते-पा०, गा० । २. स्वज्ञातो०- पा०, गा०। ३. परस्परहितोप०-पा०, गा०। ४. गणिका०-जै०।
SR No.002259
Book TitleTattvasangraha Part 02
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages450
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy