________________
६९६
तत्त्वसंग्रहे ___ यत्पुनर्धर्माधर्मविषयां चिन्तामपहाय' स्वपरप्रसिद्धस्य सर्वज्ञस्य सकलजगद्गत: सूक्ष्मादि-भेदज्ञत्वाज्ञत्वसाधनाय सावय-बौद्धदिभिर्ग्रन्थरचनायां वादे वा संरम्भः क्रियते, स केवलमेषां संक्लेशफल एव। सर्वजगत्सूक्ष्मभेदज्ञत्वप्रसाधनइति निमित्तसप्तमी। ग्रन्थवादयोरित्यत्र तु संरम्भापेक्षाऽऽधारसप्तमी ॥ १३४० ।।
स्यादेतद्-यदि न कश्चिद् धर्मादिपरिज्ञाताऽस्ति नरः, तदा लोके कथं पुण्यापुण्यावगतिर्भवति?–इत्याशङ्कायामाहरे
सर्वप्रमातृसम्बद्धप्रत्यक्षादिनिवारणात् ।
केवलागमगम्यत्वं लप्स्यते पुण्यपापयोः ॥३१४१॥ [G.821] केवलागमगम्यत्वमिति । आगममात्रगम्यत्वमित्यर्थः । यद्यप्यागमशब्द: सामान्यवचनः, तथाप्यर्थादपौरुषेयागमनिष्ठ एव द्रष्टव्यः ॥ ३१४२॥
एतावतैव मीमांसापक्षे सिद्धेऽपि यः पुनः।
सर्वज्ञवारणे यत्नस्तत्कृतं मृतमारणम् ॥३१४२॥ .. धर्मज्ञत्वनिषेधमात्रेण "चोदनालक्षणोऽर्थो धर्मः" (मी० द० १.१.२) इत्यस्मिन् मीमांसापक्षे सिद्धेऽपि योऽस्माभिर्वक्ष्यमाणो भूयः सर्वज्ञपुरुषनिषेधाय यत्नः क्रियते, सोऽभिमतफलसिद्धेर्जातत्वात् प्राप्तफलस्य मृतमारणवन्निष्फलः । यश्च बौद्धादीनां धर्मज्ञेऽभावप्रमाणेन हते सति सर्वज्ञसाधनाय यत्नः, सोऽपि समीहितफलाभावात् तुषकण्डनं तण्डुलार्थिन: केवलमायासमात्रफल एव। यथा तुषान्तर्गततण्डुलपरित्यागेन तण्डुलार्थिनः केवलं तुषकण्ड नम्, एवं बौद्धादे: स्वतःप्रधानभूतधर्मज्ञपरित्यागेनानुपयुज्यमानाशेषजगद्गतसूक्ष्मादिभेदज्ञसाधनमित्येतत् तुषकण्डनसाधर्म्यम् ॥३१४३ ॥
येऽपि विच्छिन्नमूलत्वाद् धर्मज्ञत्वे हते सति।
सर्वज्ञान् पुरुषानाहुस्तैः कृतं तुषकण्डनम् ॥३१४३॥ विच्छिन्नमूलत्वदिति। विच्छिन्नं मूलं प्रधानधर्मात्मकवस्तुपरिज्ञानं येषां ते तथोक्ताः, तद्भावस्तत्त्वम् ॥ ३१४३॥
न केवलमेषां बौद्धादीनां सर्वज्ञं साधयतामभीष्टफलासिद्धिः, अपि त्वनिष्टापत्तिरपीति दर्शयति
साक्षात् प्रत्यक्षदर्शित्वाद् यस्याशुचिरसादयः।
स्वसंवेद्याः प्रसज्यन्ते को नु तं कल्पयिष्यति !॥३१४४॥ स्यादेतत्-सुगतादीनां सकलपदार्थराशितत्त्वोपदेशादनुमितः सर्वज्ञभावः- इत्यनुमानबाधितत्वं प्रतिज्ञायाः, हेतोश्चासिद्धत्वम् ? इत्याशङ्कयाह
न च वेदोपवेदाङ्गप्रत्यङ्गाद्यर्थबोधनम्।
बुद्धादेर्दृश्यते वाक्यं स सर्वज्ञः कथं मुधा ॥३१४५॥ वेदाः=ऋग्यजुःसामसंज्ञकाः, उपवेदाः आयुर्वेदधनुर्वेदादयः, अङ्गानि वेदानां षट्१. चित्रामप०-पा०।
२. आशङ्का०-पा०। । ३. तन्दुला०-गा०; एवमुपरि पि।
४. बौद्धादौ-पा०, गा०।