________________
अतीन्द्रियार्थदर्शिपरीक्षा
६९५ एवं तावत् संक्षिप्तसर्वज्ञप्रसाधने सिद्धसाध्यतेति प्रतिपादितम् । इदानीं विस्तरेणाशेषजगत्परिज्ञानात् सर्वज्ञत्वसीधने दोषमाह
. विशेषेण तु सर्वार्थसाक्षात्प्रत्यक्षदर्शिनम्।
यः कल्पयति तस्यासौ मुधा मिथ्या च कल्पना ।। ३१३५॥ मुर्धेत निष्फला, पुरुषार्थसिद्धावनुपयोगात्। मिथ्येति असम्भावनीयार्थविषयत्वाद्वितथा ॥३१३५॥ तदेवासम्भावनीयविषयत्वमस्या दर्शयति- .
एकस्यैव शरीरस्य यावन्तः परमाणवः।
केशरोमाणि यावन्ति कस्तानि ज्ञातुमर्हति!॥३१३६ ॥ एकशरीरान्तर्गताशेषपरमाणुप्रविभागपरिज्ञानमेव तावत् खलु पुंसामसम्भाव्यम्, किमुताशेषजगद्गतसूक्ष्मादिविशेषपरिज्ञानं भविष्यति ॥ ३१३६ ॥ मुधात्वं कल्पनाया दर्शयन्नाह- .
समस्तावयवव्यक्तिविस्तरज्ञानसाधनम् ।
काकदन्तपरीक्षावत् क्रियमाणमनर्थकम्॥३१३७॥ अवयवाश्च पाण्यादयः, व्यक्तयश्च धवखदिरपलाशादय इत्यवयवव्यक्तयः, समस्ताश्च ता अवयवव्यक्तयश्चेति विग्रहः, तासामणुकेशपत्रादिलक्षणं विस्तरं जानातीति तथोक्तम्। "कृत्यल्युटो बहुलम्" (पा० सू० ३.३.११३) इति कर्तरि ल्युट्। तस्य साधनम् प्रतिपादनम् । [G.820] तदनर्थकम्; असम्भवित्वेन धर्माधर्माविषयत्वेन च पुरुषार्थं प्रत्यनुपयोगित्वादिति भावः ॥ ३१३७॥ एतदेव दृष्टान्तेनोपपादयन्नाह
यथा च चक्षुषा सर्वान् भावान् वेत्तीति निष्फलम्। . . सर्वप्रत्यक्षदर्शित्वप्रतिज्ञाऽप्यफला . तथा॥३१३८॥ एतेन सिद्धसाध्यत्वं प्रतीतिबाधितत्वं च प्रतिज्ञाया यथायोगमुक्तं भवति ॥ ३१३८॥ यत्र तु विवादः, यत्साधने च पुरुषार्थोपयोगित्वं तद्दर्शयति.... स्वधर्माधर्ममात्रज्ञसाधनप्रतिषेधयोः ।
- तत्प्रणीतागमग्राह्यहेतुत्वे हि प्रसिध्यतः॥३१३९॥ स्वकीयश्चासौ धर्माधर्ममात्रज्ञेश्चेति तथोक्तः, तस्य साधनप्रतिषेधाविति विग्रहः। सत्सप्तमीयम् । तत्प्रणीतस्यागमस्य ग्राह्यत्वहेयत्वे हि प्रसिध्यत इति यथाक्रम सम्बन्धः । एतदुक्तं भवति-यदि साधनवादी स्वकीयशास्तारं धर्माधर्मज्ञं साधयति, तदा तस्य साधने कृते सति तत्प्रणीतागमस्य ग्राह्यता सिध्यति। दूषणवादीच यदि पराभ्युपगतं स्वधर्माधर्ममात्रज्ञं प्रतिषेधति तदा तस्य निषेधे कृते सति दूषितधर्माधर्मज्ञप्रणीतस्यागमस्य हेयत्वे प्रसिध्यति॥ तत्र
सर्वजगत्सूक्ष्मभेदज्ञत्वप्रसाधने। अस्थाने क्लिश्यते लोकः संरम्भाद् ग्रन्थवादयोः॥३१४०॥ १. प्रतिपादितम्-पा०, गा०।
२. तु-पा०, गा०।
३.सप्तमीयम्-पा०, गा०।