SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ ६९४ तत्त्वसंग्रहे किञ्च–सामान्याकारतः विश्वस्य जगतः संक्षेपपरिज्ञानाद्वा सर्वज्ञ इष्टः, आहोस्विद् विशेषाकारेण विस्तरपरिज्ञानात्? तत्राद्ये पक्षे सिद्धसाध्यतेति दर्शयति भावाभावस्वरूपं वा जगत् सर्वं यदोच्यते। तत् संक्षेपेण सर्वज्ञः पुरुषः केन नेष्यते॥३१३१॥ सर्वमेव हि जगदितरेतराभावादिस्वभावत्वादभावस्वभावम्, विधिरूपतया व्यवस्थितत्वात् भावस्वभावमिति यदेतदस्माभिर्भावाभावस्वभावत्वं सर्वजगद्व्यापी सामान्यधर्मो वर्णितः, तेन रूपेण सर्वजगत्परिज्ञानाद् यदि सर्वज्ञः प्रसाध्यते, तथापीष्टमेव; न ह्येतावता धर्मज्ञत्वं प्रसिध्यति कस्यचित्। तत्सड्क्षेपेणेति। तदेव भावाभावरूपत्वं जगतः संक्षेपः, संक्षिप्यतेऽनेनेति कृत्वा ॥ ३१३१ ॥ एवं ज्ञेयप्रमेयत्वसंक्षेपेणापि सर्वताम्। आश्रित्य यदि सर्वज्ञः कस्तं वारयितुं क्षमः॥३१३२॥ एव प्रमेयत्वादिभिः सामान्यधर्मैः परिज्ञानेऽपि सिद्धसाध्यता ॥ ३१३२ ॥ पदार्था यैश्च यावन्तः सर्वत्वेनावधारिताः । । तज्ज्ञत्वेनापि सर्वज्ञा सर्वे तद्ग्रन्थवेदिनः॥३१३३॥ अथापि स्याद्-यैः स्वस्मिन् स्वस्मिन् शास्त्रे यावन्तः पदार्थाः सर्वत्वेनावधार्य निर्दिष्टाः-यथा बौद्धैः पञ्च स्कन्धाः, वैशेषिकैः षंट पदार्थाः, नैयायिकैः प्रमाणप्रमेयादयः षोडश, साङ्ख्यैःप्रकृतिमहदादयः पञ्चविंशतिः-इत्येवमादि; तत्परिज्ञानात् सर्ववित् प्रसाध्यत इति? एवं सत्यतिप्रसङ्गः; तद्ग्रन्थार्थवेदिनोऽन्ये येऽध्येतारः ते सर्वज्ञाः प्राप्नुवन्ति ॥ ३१३३॥ तथा षड्भिः प्रमाणैर्यः षट्प्रमेयविवेकवान्। सोऽपि संक्षिप्तसर्वज्ञः कस्य नाम न सम्मतः॥३१३४॥ अथापि स्याद्-यो हि प्रत्यक्षानुमानशब्दोंपमानार्थापत्त्यभावाख्यैः षभिः प्रमाणैर्यथास्वमेषां विषयषट्कं विवेकेन परिजानाति स सर्वज्ञ इति? अत्रापि सिद्धसाध्यता। तथा हि-प्रत्यक्षं रूपादिविषयपञ्चकनियतत्वान्न धर्माधर्मविषयम् । अनुमानमपि [G.819] प्रत्यक्षगृहीतलिङ्गसम्बन्धलिङ्गिविषयत्वान्न तद्विषयम्, धर्मादेरतीन्द्रियत्वेन केनचित् सम्बन्धस्य ग्रहीतुमशक्यत्वात् । शाब्दं यद्यपि सर्वं परोक्षाविषयम्, तथा पि न तेन ज्ञानेनातीन्द्रियार्थदर्शी भवितुमर्हति,तस्य ज्ञानस्य रेपरोक्षार्थविषयत्वेनाप्रत्यक्षत्वात् । न चाप्रत्यक्षज्ञानात् समङ्गी पुरुषः साक्षादर्शी युज्यते। उपमानमपि सादृश्यतदुपाधिविषयत्वान्न धर्माधर्मादिविषयम् । यथोक्तम् "तस्माद्यत् स्मर्यते तत् स्यात् सादृश्येन विशेषितम्। प्रमेयमुपमानस्य सादृश्यं वा तदाश्रितम् ॥" (तत्त्व० १५३४) इति। अर्थापत्तिरपि दृष्टश्रुतार्थान्यथानुपपत्तिपरिकल्प्यार्थान्तरविषया, नासौ धर्मादिगोचरा। न हि कश्चिद् दृष्टः श्रुतो वार्थोऽस्ति यो धर्मादिना विना नोपपन्नः । भवतु वा धर्मादिविषयत्वमर्थापत्तेः,तथापि तस्या अप्रत्यक्षस्वभावत्वान्न तत्समङ्गी धर्मादिसाक्षाद्दर्शी सिध्यति । अभावस्य तु प्रमेयाभावविषयत्वादेवायुक्तं धर्मादिविषयत्वम्॥ ३१३४॥ १. सर्वज्ञत्वेना.. - जै०। २. विवेकवत्-जै०। ३. परोक्षावि०- गा०। ४. तत्सङ्गी-पा०ष गा०।
SR No.002259
Book TitleTattvasangraha Part 02
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages450
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy