________________
अतीन्द्रियार्थदर्शिपरीक्षा
६९३ नेन्द्रियादिलक्षणः, चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवञ्जातीयकमर्थं शक्नोत्यवगमयितुम्, नाम्यत् किञ्चनेन्द्रियमिति।
प्रमाणयन्ति चात्र-यः प्रमाणपञ्चकविरहस्वभावाभावप्रमाणविषयीकृतविग्रहः स विदुषामभावव्यवहारगोचरतामेवावतरति, [G.817] यथा गगननलिनम्। अभावप्रमाणविषयीकृतविग्रहश्च सर्वदर्शी पुरुष इति स्वभावहेतुः; व्यवहारयोग्यतायाः साध्यत्वात् । अभावस्त्वभावप्रमाणत एव सिद्धः ॥ ३१२४-३१२६ ॥
ननु चैतावदेव सर्वं प्रमेयं वस्तु, यदुत पञ्चविषया रूपादयः, ताँश्च जानन्तो नरा लोकेऽतिप्रतीता एवेति, ततश्च प्रतीतिबाधा प्रतिज्ञायाः? इत्येतदाशङ्कयाह
धर्मज्ञत्वनिषेधश्चेत् केवलोऽत्रोपयुज्यते।
सर्वमन्यद् विजानानः पुरुषः केन वार्यते॥३१२७॥ अत्र हि वेदप्रामाण्यसिद्धौ धर्मात्मविश्वपरिज्ञातृत्वनिषेधमात्रं विवक्षितम्, न तु सर्वशब्दाभिधेयमात्रपरिज्ञातृत्वनिषेधः, तेन धर्माधर्मव्यतिरिक्ताशेषपदार्थपरिज्ञानापेक्षया यः वचित्' पुंसि सर्वज्ञव्यवहारो लोकस्य सम्भवत्येवेति न तस्य प्रतिषेधोऽस्माभिः क्रियते, अतो न प्रतीतिबाधा सम्भवतीति भावः ॥ ३१२७॥ .
किञ्च-यदि भवद्भिरपि बौद्धैर्धर्माधर्मज्ञव्यतिरेकेणान्यस्मिन् पुंसि सर्वज्ञत्वं प्रसज्यते, तदा सिद्धसाध्यतेति दर्शयन्नाह
सर्वशब्दश्च सर्वत्र प्रकृतापेक्ष इष्यते।
ततः प्रकृतसर्वज्ञे सति किं नोऽवहीयते॥३१२८॥ किञ्च तत्प्रकृतं सर्वमित्युच्यते? इति दर्शयति
अर्थे चासम्भवात् कार्यं किञ्चिच्छब्देऽपि कल्प्यते। . तत्र यः ‘सर्वशब्दज्ञः स सर्वज्ञोऽस्तु नामतः॥३१२९॥ यथा हि-व्याकरणे "अग्नेर्ड " (पा० सू० ४.२.३३) इत्यादिना लक्षणेन प्रत्ययागमादि कार्यं विधीयमानमर्थे न सम्भवतीति सामर्थ्यादर्थवाचिनि शब्देऽवगम्यत इति वैयाकरणैर्वर्ण्यते, तद्वद्यदि भवद्भिरपि सर्वस्य केनचित् परिज्ञातुमशक्यत्वादिति कृत्वा स्वसिद्धान्तपरिपठितस्य सर्वज्ञशब्दस्य यत् सर्वपदं तस्य स्वरूपप्रधानतामाश्रित्य सर्वशब्दं यो वेत्ति स सर्वज्ञ इत्येवं वर्ण्यते, तदास्तु भवतु, नामत: संज्ञामात्रात्। न हि यथेष्टं नाम कुर्वाणस्य कस्यचित् क्वचित् प्रतिरोद्धा; स्वतन्त्रेच्छामात्रप्रभवत्वान्नाम्न इति भावः ॥३१२९॥
अथापि प्रकृतं किञ्चित् तैलोदकघृतादिवत् ।
तेन सर्वेण सर्वज्ञस्तथाप्यस्तु न वार्यते॥३१३०॥ [G.818] अथापि धर्माधर्माभ्यां यदन्यत् तैलोदकघृतादि सर्वत्वेन विवक्षितम्, तेन सर्वेण विषयीकृतेन सता सर्वज्ञ इतीष्यते, तथापि सिद्धसाध्यता ॥ ३१३०॥ १. कस्मिंश्चित्-पा०, गा० ।
२. सम्भवति-पा०, गा०। ३. अग्निर्दृक्-गा।
४. ससिद्धान्त०-जै०, पा०/ ५. वृतादि यत्-गा०/