________________
२६. अतीन्द्रियार्थदर्शिपरीक्षा
"अनल्पकल्पासङ्खयेयसात्मीभूतमहादयः ।। यः प्रतीत्यसमुत्पादं जगाद वदतां वरः।
तं सर्वशं प्रणम्यायं क्रियते तत्त्वसङ्गह:"॥ (तत्त्व० ५-६) इत्यनेन यत् सर्वज्ञोपदिष्टत्वं प्रतीत्यसमुत्पादस्य विशेषणमुक्तम्, तत्समर्थनार्थं प्रस्तावमात्रं रचयन्नाह
एवं सर्वप्रमाणानां प्रमाणत्वे स्वतोऽस्थिते।
अतीन्द्रियार्थवित्सत्त्वसिद्धये न प्रयत्यते ॥३१२३॥ [G.816] एवमनन्तरोक्तेन न्यायेन यदा सर्वेषामेव प्रमाणानां न स्वत एव प्रामाण्यमिति स्थितम्, अतोऽयत्नेनैवातीन्द्रियार्थदर्शी पुरुषः सिद्ध इति न तत्सिद्धये पृथक् प्रयत्नान्तरमास्थीयते ॥ ३१२३ ॥ स्यादेतत्, कथं यत्नमन्तरेण सिध्यति? इत्याह
वेदस्यापि प्रमाणत्वं यस्मात् पुरुषतः स्थितम्। तस्य चातीन्द्रियजत्वे ततस्तस्मिन् प्रमाणता ॥३१२४॥ अन्यथाज्ञानसन्देहविपर्यासानुषङ्गिणि । पुंसि कर्तरि नैवास्य प्रामाण्यं स्यात् तदन्यवत् ॥३१२५॥ स्वर्गयागादिसम्बन्धो ज्ञात्वा तद् येन भाषितः।
विस्पष्टातीन्द्रियज्ञानः सोऽभ्युपेयः परैरपि॥३१२६॥ तस्य चेति पुरुषस्य। तत इति पुरुषात् कर्तुः। तस्मिन्निति वेदे। प्रमाणतेत्येतदपेक्षाऽधिकरणसप्तमी वेद' इति । प्रमाणतेति । अविपरीतातीन्द्रियार्थप्रतिपादकत्वम् । एतच्च परमतापेक्षयाऽभिहितम् । एतदुक्तं भवति-यदि भवद्भिरवश्यं वेदस्य प्रामाण्यमभ्युपेयते, तदास्य पुरुषादिव कर्तुः प्रामाण्यं युक्तम्, न स्वत इति। एतच्च पूर्वं प्रतिपादितम् । स च वेदस्य कर्ता यद्यतीन्द्रियदृग्भवति, तदास्य ततः कर्तुरपि प्रमाणता युक्ता, नान्यथा । अन्यथा हि विपरीतसंशयज्ञानादियुक्ते कर्तरि सत्युन्मत्तादिवक्यवद् वेदोऽप्रमाणतामेवाश्नुवीत। तस्माद् योऽसौ वेदकर्ता पूर्वं श्रुतिपरीक्षायां प्रसाधितः, परैरपि मीमांसकैरतीन्द्रियार्थदर्शी सामर्थ्यादङ्गीकर्तव्य इति, तत्प्रतिक्षेपो न कार्यः। ____तथा हि-सर्वेषामेव पुंसां रागादिदोषतिमिरोपहतबुद्धिलोचनतया नातीन्द्रियार्थदर्शित्वमस्तीत्यवगम्य तत्प्रतीतेष्वागभेष्वप्रतिष्ठितप्रामाण्यप्रत्याशो धर्माधर्मावगमार्थी नरस्तीरादर्शीव शकुनिर्वेदमेव किल प्रमाणयिष्यतीति मन्यमानैर्यद्वा गुणद्रविणदारिद्र्योपहताधिमोक्षतया जैमिनीयैरतीन्द्रियार्थदृक् प्रतिक्षिप्यते-सर्व एव हि पुरुषा रागादिभिरविद्या च तदुपशमोपायवैकल्याद् विप्लुताः, तस्मानास्त्यतीन्द्रियार्थदर्शी कश्चिदिति चोदनालक्षण एवार्थो धर्मः, ११. पा.. गा• पुस्तकयोनास्ति।
२.पा०, गा० पुस्तकयो स्ति। ३ हलाविमोक्ष-पा. हतविमोक्ष०- गा० ।