Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

View full book text
Previous | Next

Page 337
________________ - अतीन्द्रियार्थदर्शिपरीक्षा ७४१ नापि रागादिपर्यवस्थानकृतः कायचित्तपरिदाहोपद्रवोऽस्ति । नापि जन्मप्रतिबद्धो व्याधिजराद्युपद्रव:१; जन्महेतोः क्लेशस्याभावात्। नापि साश्रवसुखोपभोगवद् वैरस्योपद्रवः; प्रशमसुखरसस्यैकान्ततयाऽनुद्वेगकरत्वात्। तन्नास्य हानाय यत्नो युक्तः । अपि तु यदि भवेदपरिहाणायैव भवेत्; बुद्धेः प्रकृत्या गुणपक्षपातात्। नापि दोषापादानाय प्रयत्नः, तेषां सर्वोपद्रवास्पदत्वेन दुष्टत्वात् । तस्मात् सम्भविनी नैरात्म्यभावना। तस्याश्च प्रकर्षपर्यन्तगमनात् स्फुटप्रतिभासज्ञानफलत्वं दृष्टम्, यथा कामिनी भावयतः कामातुरस्य। तथा हि-तस्य सविभ्रमाः पश्याम्युपगृह इत्येवं वाच: कायव्यापाराश्चाभिप्रायानुरूपाः साक्षात्कारिनिबन्धनाः प्रवर्तन्ते । तस्मान्नासिद्धो हेतुः । नाप्यनैकान्तिकः; यतो नैरात्म्यदर्शनस्य भूतार्थविषयत्वेन बलवत्त्वम्; आत्मदर्शनस्य तु विपर्ययाद् विपर्यय इति भवति विपक्षप्रतिपक्षभावः । रागद्वेषयोरप्यभूतात्मग्रहसंस्पर्शेन प्रवृत्तेर्न तयोविरुद्धरूपग्रहणनिमित्तो विपक्षप्रतिपक्षभावः। ___ नापि विपर्यासात्; अविपर्यासकृतोईयोरपि विपर्यस्तत्वात्। नाप्यनयोर्विरोधः सिद्धः; द्वयोरप्यात्मग्रहैकयोनित्वात्, कार्यकारणभावाच्च। तथा हि-सत्यात्मात्मीयाभिष्वङ्गे तदुपरोधिनि द्वेषो जायते, नान्यथा। न चांभिन्नकारणयोः कार्यकारणभूतयोर्बाध्यबाधकभावो युक्तः, यथा वह्निधूमयोरेकेन्धनप्रभवयोः, यथा वात्मग्रहस्नेहयोः; अतिप्रसङ्गात् । युगपदनुत्पत्तिस्तु तदुपादानचित्तस्य युगपत् सजातीयचित्तद्वयाक्षेपासामर्थ्यात्।[G.875] नापि सुखदुःखयोः परस्परं विरोधः, तथा हि द्विविधे सुखदुःखे-मानसे, विषयजे च। तत्र ये तावन्मानसे, तयोर्तेषानुनयसम्प्रयोगित्वाद् रागद्वेषाभ्यामेकयोगक्षेमतया तद्विपर्यस्तत्वमभिन्नात्मरूपग्राहित्यमात्मग्रहैकयोनित्वं कार्यकारणभावश्चेति न परस्परं विरोधः सम्भवति। ये च विषयजे, तयोरपि परस्परं कारणभेदाप्रतिनियमान विरोधः । तथा हि-यत एव सुखमुत्पद्यते तत एवातिसेव्यमानत्वाद् दुःखमपीति नानयो: कारणभेदप्रतिनियमोऽस्ति, न त्वेवं नैरात्म्यदर्शनस्येतरेण । किञ्च-द्वयोरप्यनयोर्विषयबलभावित्वेन तुल्यबलत्वम्, न तु मार्गदोषयोः; मार्गस्यैव भूतार्थविषयत्वेन बलवत्त्वात्, न दोषाणाम्। अपि खलु सुखदुःखेऽचिरस्थितिके, न तु पुनरेवं नैरात्म्यदर्शनम्। तस्य सात्मत्वेन सदाऽनपायादिति पूर्वमुक्तम्, अतो न व्यभिचारः । युगपदनुत्पत्तेस्तु कारणमुक्तम्। ____यत् पुनरुक्तम्-अनुमानबलावधारितनैरात्म्यानामपि समुत्पद्यन्ते रागादय इति, तदयुक्तम्; यस्माद् भावनामयं स्फुटप्रतिभासतया निरात्मकवस्तुसाक्षात्कारिज्ञानमविकल्पकं प्रमाणप्रसिद्धार्थविषयतया चाभ्रान्तं तन्नैरात्म्यदर्शनमात्मदर्शनस्यात्यन्तोन्मूलनप्रतिपक्षो वर्णितः, न श्रुतचिन्तामयम् । यस्मादनादिकालाभ्यासादत्यन्तोपारूढमूलत्वान्मलानां क्रमेणैव विपक्षवृद्ध्याऽवहसतां क्षयः, न तु सकृच्छ्रवणेन । यथा शीतस्पर्शस्य वह्निरूपसम्पर्कमात्रान्न क्षयः। ___न चापि श्रुतचिन्तामयनैरात्म्यज्ञानसम्मुखीभावे सति रागादिसमुदयः सिद्धो येन व्यभिचार: स्यात्। तथा हि-समुत्पन्नं रागादिपर्यवस्थानमशुभादिमनस्कारबलेन विनोदयन्त्येव १. व्याधिजाधुप०- पा०, गा०। .. २. सेव्यमानाद्-पा०, गा० । ३. न तयां:-पा०, गा०। ४. अपि च-गा। ५. ०न्मूलनेन प्रतिपक्षो-पा०, गा०।

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450