Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 124
________________ परि ३.७३ ] अन्यथा तत्साधकत्वानुपपतेरिति व्याप्याविरुद्धोपलब्धिरेवैका भवेत् । तथा चाविरुद्धोपलब्धेर्विधिसिद्धौ षट्प्रकारत्वकीर्तनमनुपपन्नमेवेति । तदेतदात्मीयमार्गसुकुमारमतीनां प्रेरितम् । यतो न साध्येन हेतोयीसत्यमात्रमत्र व्याप्यत्वेन विवक्षितम् । किं तर्हि कथञ्चित्साध्येन सह तादात्म्यपरिणाममापन्नस्या कार्यकारणादिभूतस्य प्रयत्नानन्तरीयकत्वादेः ५ साधनधर्मस्य स्वरूपम् | अत एवान्यत्र व्याप्याविरुद्धोपलब्धेः स्वभावो - पलब्धिरिति संज्ञया कीर्तनम् । " कार्यकारणनिर्मुक्तवस्तुदृष्टिद्विक्ष्यते । तत्स्वभावोपलब्धिश्चान्योपलब्धिश्च निश्चिता ॥ १ ॥ कथंचित्साध्यतादात्म्यपरिणाममितस्य या || स्वभावस्योपलब्धिः स्वात्साऽविनाभावलक्षणा || २ || " इति । तत्स्वभावोपलब्धिरिति १० तस्य साध्यधर्मस्य परिणतिमत्त्वादेः स्वभावः कथंचिदपृथग्भूतं प्रयत्नानन्तरीयकत्वादिकं साधनस्वरूपं तस्योपलब्धिरित्यर्थः । अन्योपलब्धिरिति साध्यधर्मद्वपादेरन्यस्य स्वभावभूतस्य रसादेरुपलब्धिरित्यर्थः । अविनाभावलक्षणेति निश्चितान्यथानुपपत्तिलक्षणेत्यर्थः । ननु यदि व्याप्यशब्देनात्र स्वभावभूत एव धर्मः साधनत्वेनाभिमन्यते तर्हि १५ तन्निश्चये तदपृथग्भूतस्य साध्यधर्मस्यापि निश्चितत्वात्किमनुमानेन कृत्यम् । सिद्धसाध्यतादोषप्रसक्तेः । न चानिश्चित एव साधनधर्मः साध्यधर्मस्य गमक इति वाच्यम् । ज्ञापकस्याज्ञातस्य ज्ञापकत्वायोगात् । समारोपव्यवच्छेदोऽनुमानेन क्रियत इत्यपि न विचारक्षमम् । निश्चितेऽर्थे समारोपासम्भवादिति । इदमपि नोपपत्तिसहम् । अनेक - २० स्वभावस्य शब्दादिवस्तुनो निश्चितेऽपि प्रयत्नानन्तरीयकत्वादौ स्वभाबभूते साधनधर्मे परिणतिमत्त्वादिसाध्यधर्मनिश्चयनियमस्याभावात् । निश्चितानिश्चितात्मकत्वं चैकस्य वस्तुनश्चित्राकारकज्ञानवन्न विरुध्यते । तदुक्तम् --" निश्चितानिश्चितात्मत्वं न चैकस्य विरुध्यते ॥ चित्रात्मज्ञानवन्नानास्वभावैकार्थवेदनात् ॥ १ ॥ " इति । ततो निश्चि- २५ तेऽपि हेतुधर्मे साध्यधर्मानिश्चयात्तत्प्रतिपत्त्यर्थं सफलमेव प्रस्तुत - स्याद्वादरत्नाकरसहितः " Aho Shrut Gyanam" ५९५

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256