Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 188
________________ स्याद्वादरत्नाकरसहितः ५ अतिप्रसङ्गात् । अतो ज्ञातस्तद्धेतुरेषितव्यः । ज्ञानं चास्यार्थप्रत्ययलक्षणलिङ्गप्रभवमिति यावन्नार्थप्रत्ययस्तावन्न स्फोटज्ञानं यावच्च नेदं न तावदर्थप्रत्यय इति । अर्थप्रतीत्यन्यथानुपपत्त्या वा स्फोटस्य कल्पने शब्दत्वं तत्र दुरुपपादम् | शब्दशब्दप्रयोगाभावप्रसङ्गात् श्रोत्रग्राह्यर्थे लोके शब्दः प्रयुज्यते । अर्थप्रत्यायकत्वमात्रेण च स्फोटस्य शब्दत्वोपगमे धूमध्वजप्रभृतिकं प्रत्याययतो धूमादेरपि शब्दत्वं भवेत् । अगृहीतगोशब्दसङ्केतस्य च नालिकेरद्वीपनिवासिनो गौरिति शब्दश्रवणसमनन्तरं यावन्न कश्चनार्थविशेषः समुन्मिषति तावदश्रुतपूर्वोऽयं गोशब्दो न जाने की दृगस्यार्थ इति वक्तुमपि न पारयेदसाविति हता बत लोकयात्रा । यदप्यथ यथेत्याद्याशङ्कय यतो वर्णपूर्वाद्यचयवे - १० त्यादिना समाहितम् । तदपि नावदातम् । यथा खल्ववयवग्रह मपहाय नेह निरवयवः स्फोटः प्रत्येतुं पार्यत इत्यसन्तोऽपि तम्हणोपायभूतास्तस्यावयवा: परिकल्प्यन्ते 1 तथा कचित्कदाचित्कैश्चित्परोक्षोऽर्थो न शब्दप्रतिपत्तिमन्तरेणावसातुं शक्यत इति शब्दोऽप्यसनेचार्थग्रहणहेतुत्वात्परिकल्प्यत इत्यपि प्रसज्यते देवानांप्रियस्य । यदपि न च भागावसायिन्य इत्याद्याशङ्कयाराद्वनस्पतावित्यादिना समाहितं तदपि न चारु । न खलु दूरात्तरौ करिप्रत्ययपरम्परायाः सत्यतरुप्रतीत हेतुत्वम् । तथाविधसन्निधानादिसव्यपेक्षक्षयोपशम विशिष्टस्यात्मद्रव्यस्यैव तद्धेतुत्वोपपत्तेः । अपि च, वर्णस्फोटं पदस्फोटं च यथाक्रमं पदवाक्यस्फोटाभ्यां पृथग्भूतम्, अत एव शुद्धपदव्यपदेश्यं वस्तु- २० सन्तं क्वचित्प्रतिपद्य पदवाक्यस्फोटयोः काल्पनिकं तमुररीकरोमीति वदन्तं त्वां न कश्चित्प्रतिरुणद्धि न रुणद्धि वा । वर्णस्फोटावयवा नामवास्तवत्वमुपदिशन्तं पुनः पर्यनुयुज्महे महोपाध्यायम् । यथा किल पदस्फोटात्पृथगेव वर्णस्फोट : पारमार्थिकोऽभ्युपगम्यते तथा कथं वर्णस्फोटा द्विभिन्नोऽवयवस्फोटोऽपि नोपेयत इति । तदुपगमे २५ 'पूर्वोपपूर्व प्ररोपपराद्यवयवस्फोटपरम्पराऽनुभव भुवमनवर्तार्णा परिकल्पिता १५ परि. ४ ४ सू. १.] " Aho Shrut Gyanam" ६५९

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256