Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 217
________________ ६८८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० सम्पुटेन पिदधासि । नन्वालोके सति कलशादयोऽवलोक्यन्तेऽसति च नावलोक्यन्ते ततश्चानेन न्यायेनालोकस्यापि कलशादीन्प्रति कारणत्वं स्यादिति चेत् । नैष दोषः । तत्र बाधकसम्भवात् । तथा हि, प्रदीपस्य कलशं प्रति कारणत्वमङ्गीक्रियमाणं केवलस्य स्याञ्चकादिकारणकलाप५ कलितस्य वा । नायः पक्षः । कलशशून्येऽप्यपवरककुहरे प्रबोधित दीपाङ्कुरमात्रात्कलशोत्पत्तिप्रसङ्गात् । नापि द्वितीयः । चक्रादिसामग्रीविरहिणि प्रदेशे प्रबलप्रदीपकलिकाकलापप्रबोधे कदाचिदपि कलशानुपलब्धिप्रसक्तेः । ततश्चक्रादिसामग्रीव्यतिरेकेणापि चेदुपलभ्यते कलशः । तेन ज्ञायते प्रदीपदानात्पूर्वमप्यासीदसौ । तथा च प्रदी१० पस्य व्यञ्जकत्वमेव । न च शब्दजनकेप्वप्येष प्रसङ्गोऽवकाशमासा दयति । यादृशेभ्य एव तेभ्यः शब्दो जायते तादृशानामेव कारणत्वाङ्गीकारात् । तस्माजनकाभिव्यञ्जकसामयोरयमेव विशेषो यस्यां सत्यामवश्यं पदार्थोपलम्भः सा व्यञ्जिकति सिद्धः प्रत्यक्षनिश्चयः शब्दोत्पादः । एवं च विनाशोत्पादग्राहिणा प्रत्यक्षेण प्रत्यभिज्ञा १५ बाध्यत इति स्थितम् । प्रयत्नानन्तरीयकत्वेनापि शब्दस्य कार्यत्वनि श्चयात्प्रत्यभिज्ञाबाधः सिध्यति । ननु कूपखननादिप्रयत्नानन्तरमाकाशं समुपलभ्यते न च तत्कार्यमतोऽनैकान्तिकत्वमस्य । उक्तं च" अनैकान्तिकता तावद्धेतूनामिह कथ्यते । प्रयत्नानन्तरं दृष्टिनित्येऽपि न विरुध्यते ॥ १ ॥ आकाशमपि नित्यं स्याद्यदा भूमि२० जलावृतम् ॥ व्यज्यते तदपोहेन खननोत्सेचनादिभिः ॥ २ ॥ प्रयत्नानन्तरं ज्ञानं तदा तत्रापि विद्यते ॥ तेनानैकान्तिको हेतुर्यदुक्तं तत्र दर्शनम् ॥ ३ ॥ अथ स्थगितमप्येतदस्त्येवेत्यनुमीयते॥ शब्दोऽपि प्रत्यभिज्ञानात्प्रागस्तीत्यवगम्यते ॥४॥" यदुक्तं तत्र दर्श नमिति । प्रयत्नानन्तरं दर्शनं शब्दस्यानित्यत्वसाधनाय हेतुतया यदुक्तं २५ तदनैकान्तिकमित्यर्थः। अथ स्थगितमपीति । अथ पुनः पिहितमप्याकाशं १ मी. श्लो. सू. ५ श. नि. श्लो. २९, ३०, ३१, ३२, ३३.. . "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256