Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 228
________________ परि. ४ सू. १० स्याद्वादरत्नाकरसहितः ६९९ तच प्रमाणमनित्यः शब्दः कृतकत्वात् । यत्कृतकं तदनित्यं दृष्टं यथा कुम्भः । कृतकश्च शब्दः । तस्माद्यथोक्तसाध्याधिकरणमिति । न चात्र कृतकत्वमसिद्धम् । तस्याधस्तात्प्रसाधित्वात् । तथा शब्दः परिणामी वस्तुत्वान्यथानुपपत्तेरिति । न चात्र वस्तुनः प्रतिक्षणविवर्तेनैकेनानेकान्तः शङ्कीयः । तस्य वस्त्वेकदेशतया वस्तु- ५ त्याव्यवस्थितेः । न च तस्यावस्तुत्वम् । वस्त्वेकदेशत्वाभावप्रसङ्गात् । तदुक्तम्-"नायं वस्तु न चावस्तु वस्त्वंशः कथ्यते बुधैः । नासमुद्रः समुद्रो वा समुद्रांशो यथैव हि ॥१॥” इति । वस्तुत्वस्याऽन्यथानुपपत्तिरसिद्धति चेत् । शान्तम् । एकान्तनित्यत्वादौ पूर्वापरस्वभावत्यागोपादानस्थितिलक्षणपरिणामाभावे क्रमयोगपद्याभ्यामर्थक्रियाविरो- १० घाद्वस्तुत्वासम्भवादिति नैकान्तनित्यः शब्दः । नापि सर्वथा द्रव्यम् । पर्यायात्मतास्वीकरणात् । स हि पुद्गलस्य पर्यायः । क्रमशस्तत्रोद्भवात् । छायातपादिवत् । कथंचिह्नव्यं शब्दः । क्रियावत्त्वाद्वाणादिवत् । अस्तिभवतीत्यादिकया धात्वर्थलक्षणया क्रियया क्रियावता गुणादिनाऽनेकान्त इति चेत् । न । परिस्पन्दरूपया क्रियया क्रियावत्त्वस्य हेतुत्वेन १५ विवक्षितत्वात् । क्रियावत्त्वमसिद्धमिति चेत् । न । देशान्तरप्राप्त्या शब्दस्य क्रियावत्त्वप्रसिद्धेः । इतरथा वाणादेरपि निष्क्रियत्वप्रसङ्गात् । ततः कथञ्चिद्रव्यं शब्द इति सिद्धम् । मूर्तिमांश्चासौ मूर्तिमव्यपयित्वाद्धटवत् । न च मूर्तिमव्यपर्यायत्वमसिद्धम् । तत्प्रसाधकस्यानुमानस्य सद्भावात् । तद्धि शब्दो मूर्तिमद्रव्यपर्यायः सामान्यविशेष- २० वत्त्वे सति बाह्येन्द्रियविषयत्वात्पादपादिवत् । न घटत्वादिसामान्येनात्र हेतोय॑भिचारः । सामान्यविशेषवत्त्वे सतीति विशेषणात् । परमतापेक्षं चेदं विशेषणम् । स्वमते घटत्वादिसामान्यस्यापि सदृशपरिणामलक्षणस्य द्रव्यपर्यायात्मकत्वेन स्थितेस्तेन व्यभिचाराभावात् । कर्मणाऽनेकान्त इति चेत् । न । तस्यापि द्रव्यपर्यायात्मत्वेनाभिमतत्वात् । न २५ चात्मना व्यभिचारः । बाह्येति विशेषणात् । एवं च वर्णात्मकस्य "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256