Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 237
________________ Voc प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ स. ११ पदार्थस्वरूपस्य तादृक्षस्यैव प्रत्यक्षेण वीक्षणात् । शक्तिस्वीकारपक्षेऽपि कथमेतदघटिप्यत इति चेत् । मन्त्रसंस्कारक्षणे मारणशक्तेविनाशाच्छक्त्यन्तरस्य च मन्त्रसहकृताद्विषादुत्पादादिति शक्तिरेव शक्त्यन्तरनिरपेक्षा तन्नियमहेतुर्न पदार्थः । तथा चाऽतीन्द्रियशक्तिमन्तरेण ५ नाऽमित्वादीनां कार्यकारणभावव्यवस्थाहेतुत्वं तद्वदेव च गत्वौत्यादिसामान्यानामपि न वाच्यवाचकभावनियमहेतुत्वमिति योग्यताशब्देन शक्तिरेवोच्यत इत्यभ्युपगन्तव्यम् । यदप्यवादि तदङ्गीकारे च तत एवार्थसिद्धेः कृतं तथाविधसम्बन्धपरिकल्पनेनेति । तदप्यबन्धुरम् । अङ्कुरादिकार्यकारितया प्रतीतस्य बीजादेरपि परित्यागप्रसङ्गात् । एव. १० मपि हि वक्तुं शक्यत एवं कल्पयित्वाऽपि बीजादिकारणं तत्सहकारी क्षित्यादिस्तावदवश्यं स्वीकृत एव तत्स्वीकारे च तत एवाऽङ्कुरादि. सिद्धेः कृतं बीजादिकारणकल्पनेनेत्यादि । बीजादेरङ्कुरादिकार्योत्पत्ती व्याप्रियमाणस्य प्रत्यक्षत एव प्रतीतेः कथं तदुपद्रवः श्रेयान्, किंतु केवलमतन्न तज्जनकमिति क्षित्यादिरप्यस्य सहकारी कल्प्यत इति १५ चेत्, तर्हि योग्यतारूपस्य सम्बन्धस्याऽपि शब्दे वाच्यप्रतीतिं कुर्वतो वाच्यवाचकभावप्रतिनियमान्यथानुपपत्तिरूपादनुमानतः प्रतीतेः कथं तदपलापोऽपि प्रशस्यः स्यात् । अनभिव्यक्तस्त्वसौ न तजनक इति सङ्केतस्तदभिव्यञ्जकत्वेन सहकारी कल्प्यते । यच्चोक्तं कचि देशविशेष कश्चिच्छब्दो देशान्तरप्रसिद्धमर्थमुत्सृज्येत्यादि । तदप्य२० पेशलम् । सर्वशब्दानां सर्वार्थप्रत्यायनशक्तियुक्तत्वात् । क्वचिद्देशे केनचिदर्थेन व्यवहारः । अत एव चाऽनवगतसम्बन्धे शब्दे श्रुते सति संशयो जायते कमर्थं प्रत्याययितुमनेन शब्दः प्रयुक्तः स्यादिति । असत्यां हि शक्तावकृते समये निरालम्बना प्रत्यायकत्वाशङ्का । सर्वशक्तियोगे एकस्मादपि शब्दादशेषार्थप्रत्ययप्रसङ्ग इति चेत् । २५ नैवम् । समयोपयोगस्य नियामकत्वात् । न च वाच्यं स एवाऽस्तु किं शक्तिभिरिति । कृतोत्तरत्वात् । योऽपि लौकिको व्यपदेशः सङ्केत "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256