Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 226
________________ परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः व्याप्तत्वप्रदर्शनात् । सकललोकप्रसिद्धा ह्येकद्रव्यत्वपरिणतस्यैकद्रव्यता । नानाद्रव्यत्वपरिणतानामर्थानां नानाद्रव्यतावत् । स्यादेतद्बाधकामावे सतीति हेतुविशेषणमसिद्धम् । गङ्गेत्यादौ गकारवर्णस्य सर्वगतस्य युगपद्व्यञ्जकदेशभेदाद्भिन्नदेशतयोपलभ्यमानस्य स्वतो देशविच्छिन्नतयोपलम्भासम्भवादिति । तदयुक्तम् । तस्य सर्वगतत्वासिद्धेः । कूटस्थत्वेनाभिव्यङ्गयत्वप्रतिषेधाच्च । अथोच्यते सर्वगतः शब्दो नित्यद्रव्यत्वे सत्यमूर्तत्वादाकाशवदिति द्रव्यत्वादित्यभिधीयमाने घटादिना व्यभिचारस्तन्निषेधार्थ नित्यग्रहणम् । तथाऽप्यणुना व्यभिचारस्तद्ध्यवच्छेदार्थममूर्तग्रहणम् । अमूर्तत्वादित्यभिधीयमाने परमाणुत्वापरिमाणेनाऽनेकान्तस्तदपोहाय द्रव्यत्व इति । एतदपि न शब्दगतसर्वगतत्वप्रसिद्धये १० प्रभवति । जीवद्रव्येणाऽनैकान्तिकत्वात् । तस्यापि साम्प्रतं पक्षीकरणान्न तेनाऽनेकान्त इति चेत् । न । प्रत्यक्षविरोधात्प्रतिज्ञायाः। श्रोत्रप्रत्यक्षं हि नियतदेशतया शब्दमुपलभते स्वसंवेदनाध्यक्षं चात्मानं शरीरपरिमाणानुविधायितयेति । स्वरूपासिद्धश्च हेतुः ! सर्वथाऽपि नित्यद्रव्यत्वामूर्तत्वयोधर्मण्यसम्भवात् । तदसम्भवश्च नित्यत्वस्य निरा- १५ करणात्पौद्गलिकत्वेन शब्दमूर्तत्वप्रसाधनाच्च । तदेवं सुव्यक्तो गाङ्गेयगङ्गादौ गकारादिभेदप्रतिभास इति सिद्धमनेकगादिव्यक्तिषु वर्तमानं गत्वादिसामान्यमिति । यच्चोक्तं सादृश्येन शब्दादर्थावबोधासम्भवादित्यादि । तदप्यसत् । प्रतिपादितयुक्तया वर्णैकत्वस्य निराकृतत्वेन सर्वेषामपि य एव सङ्केतावसायसमये मया ध्वनिरुपलब्धः स एवाऽय- २० मित्येकत्वप्रतीतेरेव नीलमम्बरमिति प्रतीवित् भ्रान्तत्वात् । यतूक्तं सादृश्यादर्थप्रतीतौ भ्रान्तः शब्दप्रत्ययः म्यादिति तद्भूमाद्भूमध्वजादेः प्रतिपत्तावपि तुल्यम् । यच्चोक्तं न च भूयोऽवयवसामान्ययोगस्वरूपमित्यादि । तदप्यसारम् । सदृशपरिणामलक्षणन्यैव सादृश्यस्य व्यवस्थितेः । वर्णानां च निरवयवत्वमसिद्धम् । तेषां पौद्गलिकल्वसमर्थ- २५ नात् । यदप्यवादि न च गत्वादिविशिष्टानां गादीनां वाचकत्वं युक्तं "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256