________________
परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः व्याप्तत्वप्रदर्शनात् । सकललोकप्रसिद्धा ह्येकद्रव्यत्वपरिणतस्यैकद्रव्यता । नानाद्रव्यत्वपरिणतानामर्थानां नानाद्रव्यतावत् । स्यादेतद्बाधकामावे सतीति हेतुविशेषणमसिद्धम् । गङ्गेत्यादौ गकारवर्णस्य सर्वगतस्य युगपद्व्यञ्जकदेशभेदाद्भिन्नदेशतयोपलभ्यमानस्य स्वतो देशविच्छिन्नतयोपलम्भासम्भवादिति । तदयुक्तम् । तस्य सर्वगतत्वासिद्धेः । कूटस्थत्वेनाभिव्यङ्गयत्वप्रतिषेधाच्च । अथोच्यते सर्वगतः शब्दो नित्यद्रव्यत्वे सत्यमूर्तत्वादाकाशवदिति द्रव्यत्वादित्यभिधीयमाने घटादिना व्यभिचारस्तन्निषेधार्थ नित्यग्रहणम् । तथाऽप्यणुना व्यभिचारस्तद्ध्यवच्छेदार्थममूर्तग्रहणम् । अमूर्तत्वादित्यभिधीयमाने परमाणुत्वापरिमाणेनाऽनेकान्तस्तदपोहाय द्रव्यत्व इति । एतदपि न शब्दगतसर्वगतत्वप्रसिद्धये १० प्रभवति । जीवद्रव्येणाऽनैकान्तिकत्वात् । तस्यापि साम्प्रतं पक्षीकरणान्न तेनाऽनेकान्त इति चेत् । न । प्रत्यक्षविरोधात्प्रतिज्ञायाः। श्रोत्रप्रत्यक्षं हि नियतदेशतया शब्दमुपलभते स्वसंवेदनाध्यक्षं चात्मानं शरीरपरिमाणानुविधायितयेति । स्वरूपासिद्धश्च हेतुः ! सर्वथाऽपि नित्यद्रव्यत्वामूर्तत्वयोधर्मण्यसम्भवात् । तदसम्भवश्च नित्यत्वस्य निरा- १५ करणात्पौद्गलिकत्वेन शब्दमूर्तत्वप्रसाधनाच्च । तदेवं सुव्यक्तो गाङ्गेयगङ्गादौ गकारादिभेदप्रतिभास इति सिद्धमनेकगादिव्यक्तिषु वर्तमानं गत्वादिसामान्यमिति । यच्चोक्तं सादृश्येन शब्दादर्थावबोधासम्भवादित्यादि । तदप्यसत् । प्रतिपादितयुक्तया वर्णैकत्वस्य निराकृतत्वेन सर्वेषामपि य एव सङ्केतावसायसमये मया ध्वनिरुपलब्धः स एवाऽय- २० मित्येकत्वप्रतीतेरेव नीलमम्बरमिति प्रतीवित् भ्रान्तत्वात् । यतूक्तं सादृश्यादर्थप्रतीतौ भ्रान्तः शब्दप्रत्ययः म्यादिति तद्भूमाद्भूमध्वजादेः प्रतिपत्तावपि तुल्यम् । यच्चोक्तं न च भूयोऽवयवसामान्ययोगस्वरूपमित्यादि । तदप्यसारम् । सदृशपरिणामलक्षणन्यैव सादृश्यस्य व्यवस्थितेः । वर्णानां च निरवयवत्वमसिद्धम् । तेषां पौद्गलिकल्वसमर्थ- २५ नात् । यदप्यवादि न च गत्वादिविशिष्टानां गादीनां वाचकत्वं युक्तं
"Aho Shrut Gyanam"