________________
६९६ प्रमाणनयतत्त्वालोकालङ्कारः परि. ४ सू. १०
पिण्डव्यतिरेकेण व्यञ्जकोऽत्र ध्वनिर्यथा ।। पिण्डव्यङ्गथैव गोत्यादिजातिनित्यं प्रतीयते ॥१॥” इति तदपि न तर्ककर्कशकुशाग्रीयबुद्धीनां वचः । गोत्वजातेर्गत्ववदिदानी विवादाविषयापन्नत्वात् ।
भेदप्रत्ययस्य तु चक्षुर्व्यापारभेदादपि सम्भाव्यमानत्वात् । ननु सकृदपि. ५ व्यापृतनेत्रस्य परस्परविविक्तगोपिण्डप्रतिभासः समुपजायत इति । तरिक
प्रथमश्रोत्रव्यापारवेलायां गाङ्गेयगङ्गादौ गकारभेदप्रतिभासो नोपजायते । तथा चात्र प्रयोगः । गकारादिवर्णः प्रत्येकानेको वाधकाभावे सति युगपद्भिन्नदेशतयोपलभ्यमानत्वात् । य एवं स एवं यथा ब्रह्मवृक्षादिः । तथा चायम् । तस्मात्तथेति । न तावदत्रैकेन पुरुषेण क्रमशोऽनेकदेशतयोपलभ्यमानेन हेतोरनैकान्तिकत्वमाशङ्कनीयम् । युगपद्रहणात् । नाप्येकेन सहनदीधितिना नानापुरुषैः सकृद्भिन्नदेशतयोपलभ्यमानेन व्यभिचारः । बाधकाभावे सतीतिविशेषणात् । न ह्येकस्मिन्नहिमरश्मौ भिन्नदेशतयोपलभ्यमाने बाधकाभावः । प्रतिपुरुष कमलङ्घनानुपलम्भस्य बाधकस्य सद्भावात् । नापि नानाजलपात्रसद्धान्ततिम्मरश्मिबिम्बेन प्रत्यक्षतो दृश्यमानेन हेतोरनेकान्तः । तस्य दिनकरकरनिकरसन्निधिमपेक्ष्य तथापरिणममाणस्यानेकत्वात् । अथ पर्वतादिनैकेनास्य हेतोयभिचारः । तस्यैकस्यापि बाधकामावे सति युगपद्भिन्नदेशतयोपलभ्यमानत्वादिति चेत् । न । तस्याप्यवयवरूप
तया नानात्मकस्य सतो बाधकाभावे सति युगपद्भिन्नदेशतयोपलभ्य२० मानत्वव्यवस्थितेः । निरवयवत्वे तथाऽभावविरोधादेकपरमाणुवत् ।
व्योमादिना तदनैकान्तिकत्वमनेन प्रत्युक्तम् । तस्याऽप्यनेकप्रदेशत्वप्रसिद्धेः । व्योमादेरेनेकदेशत्वादेकद्रव्यत्वविरोध इति चेत् । न । नानादेशस्यापि घटादेरेकद्रव्यत्वप्रतीतेः । न खेकप्रदेशत्वेनैवैकद्रव्यत्वं
व्याप्तम् । येन परमाणोरेवैकद्रव्यता । नापि नानाप्रदेशत्वेन । यतो २५ घटादेरेवैकद्रव्यतेति समवतिष्ठते । एकद्रव्यत्वपरिणामेनैकद्रव्यताया
१ मी. श्लो. वा. स्फोटवादे श्लो. ३६।३७ ।
"Aho Shrut Gyanam"