________________
परि. ४ सः १० ]
स्थाद्वादरत्नाकरसहितः
६९५
तारतारतरत्वादिभेदवत्येति । ननु शुक्लो गुण उत्क्षेपणादि कर्म चैकमेवाधारभेदात्तु तद्भेदप्रतिभास इति चेत् । अहो प्रतीयमानापलापित्वम् ।
एकं कर्म प्राणिनां बुद्धिरेका सर्वत्रैकः श्वेतरूपो गुणश्च ।। एतत्सर्वं हंत मीमांसकानां मध्ये व्यक्तं स्वप्रियाबाहुकर्म ॥५५९॥ ५ किंचैकात्मवादोऽप्येवं कथं प्रतिक्षिप्यते । सुखदुःखादिभेदस्य शरीरभेदेनाऽपि सम्भवात् । ततो बुद्धयादिवत्सर्वदा सविशेषाणामेव वर्णानां प्रतीयमानत्वान्नानात्वमनिवार्यम् । ननु गगनादावकारोपश्लेषकृत एव भेदप्रतिभासो न स्वरूपभेदकृत इति चेत् । तदपि न निरवद्यम् । अकारस्यापि भवन्मते भेदाभावात् । असत्यपि चाऽकारो- १० पश्लेषे दिग्गजो दिग्गज इति भेदेन प्रतिभासो भवत्येव । न खलु दिग्ग इत्यत्रोपरितनगकारस्याकारान्तरेणोपश्लेषः समस्ति । एवं सम्मदः सम्मदः पट्टः पट्ट आसन्नमासन्नं मल्लो मल्लः पत्तिः पत्तिः पत्तनं पत्तनमित्यादिषु वर्णभेदप्रतीतिः सुव्यक्तैव । अर्थप्रतीतिभेदोऽपि च दिग्गजादौ शब्दान्तरनिमित्तको भवितुमर्हति न द्विरुच्चारणकृतो १५ ग्रन्थाधिक्यात् । स खल्वाधिक्यं नोच्चारणभेदात् । सहस्रशोऽपि प्रयुक्ते गवादिशब्दे सानादिमदर्थव्यतिरिक्तवाच्यसम्प्रत्ययाभावात् । शब्दक्दिोऽपि दिग्गज इति द्विगकारकोऽयं निर्देश इत्यभिदधति न तु द्विर्गकार उच्चारित इति । ननु गोगिरिगुरुगेहादावर्थभेदेऽपि गकारप्रतीत्यनुवृत्तिदर्शनादेक एवाऽयं गकारः । मैवं वोचः । न हि वयमभेदप्र- २० त्ययमपङमहे । किन्तु भेदप्रत्ययस्यापि बाधाविकलस्य सद्भावादनन्यथासिद्धत्वाच्च गवादिवत्सामान्यविशेषरूपतां गकारादेवर्णस्य वर्णयामः । व्यञ्जकभेदनिबन्धनत्वं तु भेदप्रत्ययस्य यरलवादावपि वक्तुं शक्यमिति प्रावप्रतिपादितमेव । किंच शावलेयादिभेदप्रतीतिरपि व्यञ्जकभेदनिर्मितत्वादेक एव गोत्रिभुवनेऽपि स्यात् । ननु २५ कश्चात्र व्यञ्जको यद्भेदकृतः पिण्डभेदप्रत्यय इष्यते । आह च-"न
"Aho Shrut Gyanam'