________________
६९४ प्रमाणनयतत्त्वालोकालङ्कारः परि. ४ स. १०
गकारेषु नास्ति । उच्चारणस्यैव हि तत्र भेदो नोच्चार्यमाणस्येति चेत् । तदप्यनुचितम् । तत्रापि विशेषप्रतीते: सद्भावात् । ननु यथा शावलेयादौ खुरककुदाद्यवयववर्तिनः । प्रतिव्यक्ति विशेषाः सुस्पष्टमाभासन्ते तथा गाङ्गेयादावपि गकारे ते सुस्पष्टं किं नावभासन्त इति ५ चेत् । तत्कि तिलतण्डुलकलापादाविव शावलेयादावपि प्रत्येकं त्रिकोणत्यादि सुस्पष्टविशेषावभासोऽस्ति येन भेदावभासः स्यात् । अथ तत्र त्रिकोणत्वादिविशेषाप्रतिभासेऽपि प्रतिभासन्त एव सुस्पष्टं देशभेदादयः केचिद्विशेषाः । तर्हि शुकशारिकादिसमुदी
रितगादेरपि गोपालादीनामपि सुस्पष्टं तारतारतरत्वादिविशेषावभासो १० विद्यत एव । एतेन यदपि भट्टेनोच्यते-" दृश्यते शावलेयादि
व्यक्त्यन्तरविलक्षणा ॥ बाहुलेयादिगोव्यक्तिस्तेन भेदोऽस्ति वास्तवः ॥ १॥ न तु द्रुतादिभेदेन निष्पन्ना सम्प्रतीयते ॥ गन्यक्त्यन्तरविच्छिन्ना गव्यक्तिरपरा स्फुटा ॥२॥” इति तदपि परास्तम् । नन्वस्त्वेचं तारत्वादीनां विशेषाणां तत्र ग्रहणं किं त्वारोपितम् । तदप्ययुक्तम् । आरोपितरूपवैलक्षण्यात् । तथा हि यदारोपितरूपं वस्तु तदनारोपितनिजस्वरूपसम्बन्धितयाऽप्युपलभ्यते यथा स्फाटिको मणिनैसर्गिकश्चेतिन्ना । न चाऽमी गकारादयो वर्णाः कदाचिदपि तारतारतरत्वादधम्मसस्पशशून्याश्श्रुत्या प्रतिभासन्ते तत्कथं तेषां
गकारादिषु समारोपः । एवं च, यथा बुद्धीनां स्तम्भकुम्भादिविषय२० विशेषशून्यानामसंवेदनात्प्रतिविषयं नानात्वं तथा वर्णानामपि गका
रादीनां प्रति तारतारतरत्वादिविशेषं नानात्वं सिद्धम् । ननु बुद्धिरप्येकैव विषयभेदोपाधिनिबन्धनस्तद्भेद इति चेत् । मैवम् । " क्षणिका हि सान चिरकालभवतिष्ठते" इत्यभिधानेन स्वयमेव तद्भेदाभ्युप
गमात् । यथा च शुक्लो गुणो भास्वरधूसरादिभेदवत्तयोत्क्षेपणादि २५ कर्म च स्वकीयक्षणविशेषवत्तया नानात्वं प्रतिपद्यते तथा वर्णोऽपि
१ मी. श्लो. वा. श्लो. २१।२२ । ।
"Aho Shrut Gyanam"