________________
परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः ज्ञातसंबन्धे न चान्यो वाचको भवेदित्यादि । तदपि नोपपन्नम् । न खलु य एव सम्बन्धावबोधसमये समुपलब्धस्तेनैवार्थप्रतिपत्तिर्विधेयेति नियमः समस्ति । प्राक्प्रदेशपरिछिन्नधूमसदृशादपि मेदिनीधरधूमाद्धनञ्जयावबोधसमधिगमात् । न च महीध्रमहानसाधिकरणयोधूमव्यत्तयोरक्यं सम्भवति । प्रतीतिविरोधात् । सर्वगतत्वप्रसङ्गाच्च | अथ ५ धूमसामान्यस्यात्र गमकत्वमिप्यते । इतरत्रापि सामान्यस्यैव वाचकत्वमिष्यताम् । विशेषाभावात् । नन्विह सामान्य शब्दत्वं गत्वादि वा वाचकत्वेनामिप्रीयते । आद्यपक्षे, तस्य सर्वत्राविशेषात्सर्वेऽर्थाः सर्वशब्देभ्यः प्रतीयेरन् । न खलुः कारणानियमे कार्यनियमो भवितुमर्हति । तस्याकस्मिकत्वप्रसङ्गात् । द्वितीये तु गादीनामेकैकव्यक्तिरू- १० पत्वेन भेदाभावान्न तत्र गत्वादिसामान्यं सम्भवतीति कथं तस्य वाचकत्वमिति चेत् । तदप्यसाम्प्रतम् । तेषामपि तारतारतरत्वादिभेदतो नानाव्यक्तिरूपत्वसम्भवात्, गत्वादिसामान्यसद्भावोपपत्तेः । न च व्यञ्जकभेदकृत एवायं तारतारतरत्वादिभेदप्रत्ययो गकारादाविति मन्तव्यम् । यरलवादिवर्णभेदप्रतिभासस्यापि व्यञ्जकप्रभञ्जनभेदनिबन्धनत्या- १५ पत्त्याऽखिलवर्णविकल्पातीतनिरवयवाक्रमैकशब्दब्रह्माङ्गीकारप्रसङ्गात् । अथ यरलवादीनां परस्परविभिन्नस्वरूपावगमाविषयभेदनिबन्धन एव तद्भेदप्रतिभासो नोपाधिहेतुकः । तर्हि सर्गस्वर्गगर्गगाङ्गेयगङ्गादौ गकारभेदप्रत्ययोऽप्ययं न व्यञ्जकवायुभेदनिमित्तः । तत्राप्यन्योन्यविभक्तगकारस्वरूपप्रतिभासाविशेषात् । वक्तभेदे हि सति शुकशा-२० रिकामनुप्येषु व्यञ्जकनानात्वसम्भावनया वर्णभेदप्रतिभासस्तन्निबन्धनः कथंचित्सम्भावनाभुवमवतरेत् । वक्त्रैकत्वे पुनर्गाङ्गेयादौ कुतस्तन्निमित्तो भेदप्रत्ययः । ननु तत्रापि भिन्ना एव नभस्वन्तो व्यञ्जकाः, वदनं पुनरेकमस्तु किं तेन तदपि वा भिन्नमित्येके । नैतदप्युपपन्नम् । एवं हि यरलवादीनामपि परस्परं भेदो दुरुपपादः । तत्रापि व्यञ्जकप्रभञ्जन- २५ भेदस्य विद्यमानत्वाविशेषात् । ननु यरलवादिषु विशेषप्रतीतिः, समस्ति
"Aho Shrut Gyanam"