________________
प्रमाणनय तत्त्वा लोकालङ्कारः
[ परि. ४ सु. १०
I
भवोदय इति चेत् | क्षणभेदस्य दुर्लक्ष्यत्वात् । न चागृहीतसर्पस्य सर्पभ्रमो भवतीति वक्तुं शक्यम् । तस्मिञ्जन्मनि जन्मान्तरे वा सर्पग्रहणसम्भवात् । ध्वनिवस्तु तारतारतरत्वादिरस्मिन्निव जन्मनि जन्मान्तरेऽप्यशक्यग्रहण एव । तस्माद्वर्णाविष्वग्भूतस्तारतारतरत्वादिः ५ प्रतीयमानो वर्णधर्म एवेति । अनौपाधिकप्रतीत्या तीव्रतादिधर्म्मस्य सौदामिनीदान इव तारतारतरत्वादिधर्म्माधिकरणस्य शब्दस्यापि सिद्ध: प्रत्यक्षतो भेदः । तथा च तदेकत्वानुमानस्यापि तदाभासत्वमव सेयम् । एतेनाद्यतनो गोशब्दो योऽप्यासीदित्यादि प्रतिक्षिप्तम् । न्यायस्य सहशत्वात् । यदप्यभाषि शब्दो दीर्घकालस्थायीत्यादि । तदपि चेष्टया - १० नैकान्तिकम् । तस्याः सम्बन्धबलेनार्थप्रतीतिहेतुत्वेऽपि दीर्घकालमवस्थानाभावात् । एतेन यः पुनरस्थिरः स सम्बन्धबलेन नार्थप्रतीतिं जनयतीत्यादि पराकृतम् । चेष्टायाः सम्बन्धबलेनार्थबोधकत्वेऽपि तादात्विकनिमित्तत्वसम्भवात् । ततश्चायुक्तमेतत्कंचित्कालं स्थिरः शब्दः सर्वकालमपि स्थिर इत्यादि । कञ्चित्कालं स्थिरत्वस्येत्यं शब्दे निराकृतत्वेनासिद्धत्वात् । अनैकान्तिकं कञ्चित्कालस्थिरत्वमचिररोचि :प्रमुखे । तेषां तत्सद्भावेऽपि साधनमसिद्धम् । तत्सिद्धिनिबन्धनस्य कञ्चित्कालस्थिरत्वस्य हेत्वाभासत्वेन प्रोक्तत्वात् । कादाचित्कत्वाच शब्दे तदसिद्धम् । तथा हि यत्कदाचित्कं न तद्विनाशहेतुशून्यम्, यथा सौदामिनीदामादिकम् । कादाचित्कश्च शब्द इति । यदपि २० विवादाध्यासितः कालो गादिशब्दशून्यो न भवतीत्यादिकमवादि तदपि विद्युदादौ तुल्यत्वादयुक्तम् । तथा हि विवादविषयापन्नः कालः सौदामिन्यादिशून्यो न भवति कालत्वात्तत्सत्त्वोपेत का उवत् । प्रत्यक्षबाधनं पुनरुभयत्रापि समानम् । यच्च प्रत्यपादि नित्यः शब्दः परार्थं तदुच्चारणान्यथानुपपत्तेरित्यादि । तदप्यनौपयिकम् । परार्थं तदुच्चारणस्या२५ न्यथाप्युपपत्तेः । अनित्यत्वेऽपि शब्दस्य सादृश्यवशादेवार्थे सम्बन्धग्रहणसम्भवेन तत्प्रतिपत्तिघटनात् । यदप्यभिहितम् । अन्यस्मि -
-
६९२
" Aho Shrut Gyanam"