________________
परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः वाऽसौ धर्मः । तथोपगमे पीतत्वस्य शङ्खगतत्वेन प्रतिभासादेतदपि तस्यैव धर्मः स्यात् । अविशेषात् । तन्न्यायापेतम् । पीतत्वस्यान्यधर्मस्वस्थितौ शङ्खस्य च तद्विरुद्धधर्मत्वे स्थिते कामलाद्यन्वयव्यतिरेका. नुविधाने च पीतल्लोपलम्भस्य बाधेन भ्रान्तत्वावधारणात् । न चेह तारतारतरत्वादेरन्यधर्मतास्थितिः । नापि शब्दस्य तारतारतरत्यादि- ५ विरुद्धधर्मत्वम् । नापि तारतारतरत्वाद्युपलम्भस्य ध्वनिरूपत्वाद्यन्वयन्यतिरेकानुविधायित्वम् । तथापि शङ्का स्यादिति चेत् । एवमियं सर्वत्र स्यात् । तथा च न कचित्कुतश्चित्किंचित्सिद्धयेत् । न चेदं शङ्कितुमपि शक्यते । अप्रतीते तारतारतरत्वादीनां श्वनिरूपवायुधर्मले संस्काराभावात्संस्कारानुपनीतस्य चारोपयितुमशक्यत्वात् । न च प्रतीयन्त १० एवाऽमी तद्धर्मा इाते वाच्यम् । रूपरसगन्धम्पर्शेष्वनन्तर्भावेन तेषु भावरूपेषु चक्षुरादीनामव्यापाराभावात् । न च श्रवणेनैव तत्प्रतीतिः । तथा सति तेषां वायुधर्मत्वविरोधात् । तथा हि तारतारतरत्वादयो न वायुधाः श्रावणत्वात् , कादिवत् । यदि पुनरेवं नेप्यते । तदा कादीनामपि वायवीयत्वप्रसङ्गः । अस्त्वेवं को दोष इति चेत् । उच्यते। १५ वायवीयाः सन्तोऽमी कादयः किं वाय्ववयविगुणा भवेयुर्वायुपरमाणुगुणा वा । आद्यपक्षे तेषामनित्यताप्राप्तिः। अवयविविनाशे तेपामप्यवश्यं विनाशभावात् । द्वितीये तु कथं ग्रहणं तेषां तद्गतान्यगुणवत् । एवं च, प्रत्यक्षेण तेषामन्यधर्मतया कदाचिदग्रहणे संस्काराभावात्कथं शब्दे समारोपः । न चैते प्रमाणान्तरेणापि कदाचि- २० गृह्यन्ते । अथ ध्वनिभेदसंस्कारवशादेव श्रोत्रस्येदृशः सामर्थ्यभेद आविरस्ति । यत आरोप्याग्रहेऽपि भ्रमो भवति । मण्डूकवसाक्ताक्षाणामिवानवगतवंशोरगाणामपि प्रश्रमाक्षसन्निपाता,शेषरगारोपमतिः । रदसाम्प्रतम् । सर्वासामपि भ्रान्तीनामारोप्यारोपविषयग्रहणपुरस्सरत्वनियमात् । तदनुसारेण च मण्डूकवसाक्ताक्षाणामपि वंशेषूरगभ्रमो २५ व्याख्येयः । वंशे ज्ञात एव सत्यनन्तरं सपम्रमभावात् । कथमेवं नानु
"Aho Shrut Gyanam"