________________
500
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० उदात्तादिभिर्धम्भैरनैकान्तिकत्वात् । ते हि श्रवणग्राह्यत्वेऽपि न नित्या भवद्भिरङ्गीकृताः । तेषामश्रावणत्वे तु नीलादीनामिव श्रोत्रेणोपलम्भो न भवेत् । वीणादिशब्दैश्वानकान्तिकत्वम् ! तेषां श्रावणत्वेऽप्यनित्यत्वात् । यच्चान्यदवादि देशकालादिभिन्ना गोशब्दव्यक्तिबुद्धय ५ इत्यादि । न तदपि सुन्दरम् । गोशब्दलिपिबुद्धया हेतोरनैकान्तिकत्वात् । सा हि गौरित्युल्लेखेनोत्पद्यते न चैकगोशब्दविषया । देशकालादिभिन्नत्वाद्गोशब्दलिपीनाम् । नचैवं विषयभेदः क्वापि प्रसिद्धपद्धतिमास्कन्दति । सकलबुद्धीनामभिन्नविषयत्वप्रसङ्गात् । तथा
हि, देशकालादिभिन्नवस्तुबुद्धय एकगोचरा न चानेकगोचरा बस्तु. १० बुद्धित्वात्सम्प्रत्युत्पन्नघटबुद्धिवत् । एवं च निखिलवस्तुबुद्धीनामेक
घटलक्षणवस्तुगोचरत्वे घटबुद्धित्वमेव भवेत् । न गोशब्दव्यक्तिबुद्धीनां धर्मित्वम् । कथं वा गोशब्दबुद्धित्वं हेतुः । सम्प्रत्युत्पन्नगोशब्दबुद्धिवदिति दृष्टान्तः सिद्धयेत् । यतोऽनुमान स्यात् । यदप्यवादि यस्तनो
गोशब्दोऽद्याप्यनुवर्तत इत्यादि । तदपि न नीतिशीलान्प्रीणाति । १५ अन्यथानुपपत्तिशून्यत्वेन हेतोरत्राप्रयोजकत्वात् । कथमन्यथा ह्यस्तना
द्यतनसौदामिनीप्रकाशयोरप्येकत्वं न भवेत् । शक्यं हि वक्तुं ह्यस्तनविद्युप्रकाशोऽद्य तस्याभिन्नरूपस्य प्रत्यक्षतः प्रतीतेः । शब्दे तारत्वादयो धा न स्वाभाविका इति चेत् । तदशोभनम् । स्वाभाविकत्वा
वधारणन्यायस्य यत्र तत्र प्रसिद्धस्यात्रापि तुल्यत्वात् । न हि पयसि २० शैत्यद्रवत्वे तेजसि वा भास्वरत्वोष्णत्वे स्वाभाविके इत्यत्रान्यत्प्रमाणं
प्रत्यक्षात् । अथ पयःप्रमुखेषु शैत्यादीनां स्वाभाविकत्वेनैव प्रत्यक्षं ग्राहकं युक्तमन्यस्योपचारहेतोरनुपलम्भान्नियमेन तद्गतत्वेन चोपलम्भादिति चेत् । शब्देऽपि तारतारत्वादीनामेवमस्तु, विशेषाभावात् ।
तथाऽप्यतीन्द्रियः कश्चिदुपाधिरस्ति तद्गताः शब्दे तारतारतरत्वादयोऽ२५ वभासन्त इति शङ्किष्यत इति चेत् । किन्न पयःप्रमुखेष्वपि शैत्यादी
नामतीन्द्रियान्यधर्मत्वं शङ्कयते । तत्कि यद्गतत्वेन यदुपलभ्यते तस्यै
"Aho Shrut Gyanam"