________________
परि. सू. १०] स्याद्वादरत्नाकरसहितः पृथिव्यादिना कथंचित्पृथिव्याद्यवस्थानान्यथानुपपत्त्यैवास्तीत्यनुमीयते । ततश्च प्रागचे चानुपलब्धेरसिद्धत्वादनैकान्तिकत्वाभाव इत्युच्यते । प्रत्यभिज्ञानवलाच्छब्दोऽप्यस्तीत्यवगम्यते । पुनश्च विनाशकारणाभावादिति । ततश्च तयैवोपलच्या तद्विपरीतमनुमानं विरुध्यत इति । एतदपि न क्षोदशमम् । एकत्वस्वरूपत्वस्य गगनेऽप्यसिद्धत्वात् । ५ तत्खल्वेकस्वरूपं सत्स्वगोचरविज्ञानजननैकस्वरूयं तद्विपरीतं वा भवेत् । यदि तज्जननैकस्वरूपम् । तदा तस्य न खननाद्यनन्तरमेवोपलब्धिः । किन्तु पूर्वमपि स्यात् । तद्विपरीतस्वभावत्वे कदाचनाप्युपलम्भो न भवेत् , विशेषाभावात् । विशेषे वा तदेकरूपताव्याहतिः । प्रत्यभिज्ञानाच्छन्दे प्राक्सत्त्वप्रतीतिश्च च्छिन्नोद्भिन्नकररुहकुन्तलादा- १०. वपि समाना । यदप्प्रवादि प्रत्यक्षत्र चास्य श्रोत्रेन्द्रियान्वयव्यतिरेकानुविधायित्वात्सुप्रसिद्धमित्यादि । तदप्यसम्बद्धम् । प्रत्यभिज्ञानम्येन्द्रियान्वयव्यतिरेकानुविधायिदर्शनस्मरणान्वयव्यतिरेकानुविधायित्वेन तस्य पूर्व प्रसाधितत्वात् । प्रत्यक्षतायां चास्यातीतकालसम्बद्धत्वेन शब्दनिर्णायकत्वायोगः । सम्बद्धवर्तमानार्थग्राहित्वावन्मते प्रत्यक्षम्या १५ तदयोगे वा कथं योगिप्रत्यक्षाधिक्षेपो भवतः शोभते । प्रत्यक्षत्वेऽप्यस्य तद्वदतीताद्यर्थग्राहकत्वाविरोधात् । समर्थितं च प्रागेवाऽस्य विस्तरेणाप्रत्यक्षत्वम् । यदप्युक्तमेवं प्रत्यभिज्ञानप्रत्यक्षमाहात्म्यतः शब्दस्य नित्यत्वे प्रतिपन्ने इत्यादि । तदप्यवधम् । शब्दनित्यत्वग्राहकप्रत्यभिज्ञानस्यानन्तरमेव निराकृतत्वात् । यदपि न्यगादि विवादाध्यासितः २० काल एतद्गादिसम्बद्धः कालत्वादित्यादि । तदपि प्रलापमात्रम् । गादेरुच्चारणादनन्तरं विनाशस्य प्रत्यक्षप्रतिपन्नत्वेन प्रतिपादनात् । नित्यत्वसाधकानुमानम्य प्रत्यक्षविक्षिप्तपक्षत्वेनागमकत्वात् । विद्युदादेरपि चैवं नित्यत्वं स्यात् । तथा हि विवादाध्यासितकाल एतद्विद्युदादिसम्बद्धः कालत्यादिदानीन्तनकालवत् । प्रतीतिबाधाऽन्यत्रापि २५ समाना । नित्यः शब्दः श्रावणवादित्याद्यपि विचारपराङ्मुखम् ।
"Aho Shrut Gyanam"