________________
६८८
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० सम्पुटेन पिदधासि । नन्वालोके सति कलशादयोऽवलोक्यन्तेऽसति च नावलोक्यन्ते ततश्चानेन न्यायेनालोकस्यापि कलशादीन्प्रति कारणत्वं स्यादिति चेत् । नैष दोषः । तत्र बाधकसम्भवात् । तथा हि, प्रदीपस्य
कलशं प्रति कारणत्वमङ्गीक्रियमाणं केवलस्य स्याञ्चकादिकारणकलाप५ कलितस्य वा । नायः पक्षः । कलशशून्येऽप्यपवरककुहरे प्रबोधित
दीपाङ्कुरमात्रात्कलशोत्पत्तिप्रसङ्गात् । नापि द्वितीयः । चक्रादिसामग्रीविरहिणि प्रदेशे प्रबलप्रदीपकलिकाकलापप्रबोधे कदाचिदपि कलशानुपलब्धिप्रसक्तेः । ततश्चक्रादिसामग्रीव्यतिरेकेणापि चेदुपलभ्यते
कलशः । तेन ज्ञायते प्रदीपदानात्पूर्वमप्यासीदसौ । तथा च प्रदी१० पस्य व्यञ्जकत्वमेव । न च शब्दजनकेप्वप्येष प्रसङ्गोऽवकाशमासा
दयति । यादृशेभ्य एव तेभ्यः शब्दो जायते तादृशानामेव कारणत्वाङ्गीकारात् । तस्माजनकाभिव्यञ्जकसामयोरयमेव विशेषो यस्यां सत्यामवश्यं पदार्थोपलम्भः सा व्यञ्जिकति सिद्धः प्रत्यक्षनिश्चयः
शब्दोत्पादः । एवं च विनाशोत्पादग्राहिणा प्रत्यक्षेण प्रत्यभिज्ञा १५ बाध्यत इति स्थितम् । प्रयत्नानन्तरीयकत्वेनापि शब्दस्य कार्यत्वनि
श्चयात्प्रत्यभिज्ञाबाधः सिध्यति । ननु कूपखननादिप्रयत्नानन्तरमाकाशं समुपलभ्यते न च तत्कार्यमतोऽनैकान्तिकत्वमस्य । उक्तं च" अनैकान्तिकता तावद्धेतूनामिह कथ्यते । प्रयत्नानन्तरं दृष्टिनित्येऽपि न विरुध्यते ॥ १ ॥ आकाशमपि नित्यं स्याद्यदा भूमि२० जलावृतम् ॥ व्यज्यते तदपोहेन खननोत्सेचनादिभिः ॥ २ ॥
प्रयत्नानन्तरं ज्ञानं तदा तत्रापि विद्यते ॥ तेनानैकान्तिको हेतुर्यदुक्तं तत्र दर्शनम् ॥ ३ ॥ अथ स्थगितमप्येतदस्त्येवेत्यनुमीयते॥ शब्दोऽपि प्रत्यभिज्ञानात्प्रागस्तीत्यवगम्यते ॥४॥" यदुक्तं तत्र दर्श
नमिति । प्रयत्नानन्तरं दर्शनं शब्दस्यानित्यत्वसाधनाय हेतुतया यदुक्तं २५ तदनैकान्तिकमित्यर्थः। अथ स्थगितमपीति । अथ पुनः पिहितमप्याकाशं
१ मी. श्लो. सू. ५ श. नि. श्लो. २९, ३०, ३१, ३२, ३३.. .
"Aho Shrut Gyanam"