________________
परि. ४ सू. १० ] स्याद्वादरत्नाकरसहितः स्वस्य कदाचिददर्शनात् । प्रयोगयुग्मं चात्र । श्रोत्रं समानेन्द्रियग्राह्यसमानधर्मापन्नानामर्थानां ग्रहणाय प्रतिनियतसंस्कारकसंस्कार्यं न भवति, इन्द्रियत्वात् । यदित्थं तदित्थं यथा लोचनम् । तथा च श्रोत्रम् । तस्मात्तथा । शब्दाः प्रतिनियतसंस्कार संस्कार्येन्द्रियग्राह्या न भवन्ति समानेन्द्रियग्राह्यत्वे सति युगपदिन्द्रियसम्बद्धत्वात् , ५ कुम्भादिवत् । युगपदिन्द्रियसम्बद्धत्वादेतावत्युच्यमाने , एकेन्द्रियाभिसम्बद्धरूपरसादिभिराम्रफलगतैर्व्यभिचारस्तदपोहाय समानेन्द्रियेत्यादि । अस्मिन्नेव तु सति व्यवहिताव्यवहितघटाभ्यामनेकान्तस्तन्निराकरणाय युगपदित्यादि । तन्न श्रोत्रसंस्कारोऽपि घटते । भवतु तद्युभवसंस्कारः । तत्रोक्तदोषाणामसम्भवात् । तदाह--" द्वयसंस्कारपक्षे तु मृषा १० दोषद्वये वचः ॥ येनान्यतरवैकल्यात्सर्वैः सर्वो न गृह्यते ॥ १॥" द्वयसंस्कारपक्षे श्रोत्रशब्दयोः संस्कारपझे । यत्प्रत्येकपक्षभावे दोषद्वयस्य वचनं तन्मृषालीकम् । मृषात्वे कारणमाह येनेति । संस्कृतोऽपि शब्दो दूरस्थेनेन्द्रियसंस्कारवैकल्यानोपलभ्यते । संस्कृतेन्द्रियेणाऽपि निहितेन शब्दान्तरमसंस्कृतत्वान्नोपलभ्यते । इत्यन्यतरवैकल्यात्सर्वैः १५ सर्वेषामग्रहणं युक्तमिति । नैतदपि सक्तम् । तथा हि, यदि संस्कृतं श्रोत्रं संस्कृतं वर्ण प्रतिपद्येत तदा तं सर्वगतत्वेन प्रतिपद्यते । तत्स्वरूपत्वातस्य । ततो नित्यैकरूपत्वे शब्दस्यावार्यावारकभावस्य व्यङ्गयव्यञ्जकमावस्य चानुपपत्तेर्नावरणकृतः समुच्चारणानन्तरमस्थानुपलम्भ इति प्रत्यक्षेणैवास्य नाशोऽवसीयते । उत्पादोऽपि तेनैव निश्चीयते । २० यथा हि चक्रचीवरादिव्यापारान्वयव्यतिरेकानुविधायित्वं घटादेवगम्यते । तथा ताल्वादिसंयोगान्वयव्यतिरेकानुविधाथित्वं शब्दस्यापीति घटवच्छब्दोऽप्युत्पाद्यः प्रत्यक्षलक्षित एव । अथात्र ताल्वादिसंयोगादी. नामभिव्यञ्जकत्वं कथयेः । कलशादिष्वपि चक्रादीनां किं तन्न कथयासि । कथयाम्येवेति चेत् । सत्कार्यवादमिदानी कतरेण कपाट- २५
१ मी. श्लो. सू. ५ श. अ. लो. ८६, ८७.
"Aho Shrut Gyanam"