________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. ४ सू. १०
श्रोत्रं तेनासंस्कृतशष्कुलिः ॥ १ ॥" अधिष्ठानदेशत इति । अधिष्ठानसंयोगपरतन्त्रप्रदेशे । अत इत्यादि तच शब्द नैव श्रोष्यति श्रोत्र यस्य संस्क्रियमाणस्य संयोगद्वारेणाव च्छोदका शष्कुली न संस्कृतेत्यर्थः । " अप्राप्तकर्म्मदेशत्वाद्धनिना श्रोत्रसंस्क्रिया ॥ अतोऽधिष्ठानभेदेन ५ संस्कारनियमः स्थितः ॥ १॥ इति । तदप्यसमीचीनम् । श्रोत्र संस्कारपक्षेऽपि सकृत्संस्कृतस्य श्रोत्रस्य युगपदखिलशब्दपरिच्छेदकत्वप्रसक्तेः । न हि नेत्रमञ्जनादिना कृतसंस्कारं सत्सन्निहितं स्वगोचरं नीलपीतादिकं किंचित्पश्यति किंचिन्नेति विशेषं पश्यामः । बलातैलादिना संस्कृतं श्रोत्रं वा कांश्चिदेव गकारादिवर्णागोतीति नियमो दृश्यते । येना१० त्रापि तथा कल्पना स्यात् । अथ व्यञ्जकानां वायूनां भिन्नेषु कर्णमूलावयवेषु वर्तमानानामर्थापत्त्या प्रतिनियतवर्णश्रवणान्यथानुपपत्तिलक्षणया प्रतिनियतवर्णग्राहकत्वेन संस्काराधायकत्वस्य प्रतीतेर्नेकवर्णग्राहकत्वेन संस्कृतं श्रोत्रं सर्ववर्णान्युगपद्गृह्णाति । यथा हि भवत्पक्षेऽन्यवर्णजनकैस्ताल्वादिसंयोगविभागैर्नान्यो वर्णों जन्यते । तथाऽस्मत्पक्षेऽपि १५ नान्यवर्णग्राहक श्रोत्र संस्काराधाय कव्यञ्जकप्रेरकैर्वायुभिरन्यवर्णग्राहक श्री. त्रसंस्काराधायकवायुप्रेरणं क्रियते । इत्युत्पत्त्यभिव्यक्तिपक्षयोः कार्यदर्शनान्यथानुपपत्त्या समः सामर्थ्यभेदः प्रयत्नविवक्षयोः सिद्धः । तदुक्तम्" व्यञ्जकानां हि वायूनां भिन्नावयवदेशता ॥ जातिभेदश्च तेनैव संस्कारो व्यवतिष्ठते || १ || अन्यैस्तात्यादिसंयोगे
1
यो वर्णो यथैव हि ॥ तथाऽन्यवर्णसंस्कारो न ध्वन्यन्तरसारिभिः || २ || तस्मादुत्पस्यभिव्यक्त्योः कार्यार्थापतितः समः ।। सामर्थ्यभेदः सर्वत्र स्यात्प्रयत्नविवक्षयोः ॥ ३ ॥ " इति । तदेतदसम्बद्धम् । इन्द्रियसंस्कारकाणां व्यञ्जकानां समान देशसमानधर्मापन्न समानेन्द्रियग्राह्येप्वर्थेषु प्रतिनियतग्राहकत्वेनेन्द्रियसंस्कारक
६८६
२०
१ मी. लो. श, अ. श्लो. ७०, ७१ । २ मी. लो. सू. ५ श. अ. श्लो. ७९, ८१, ८२, ८३.
" Aho Shrut Gyanam"