________________
परि. ४ सू. १० ]
स्याद्वादरत्नाकरसहितः
प्रतिपत्तिप्रसक्तेः । अथार्थापत्त्या ध्वनयः प्रतीयन्ते । तथा हि, सन्ति शब्दव्यञ्जका ध्वनयः शब्दप्रतिपत्त्यन्यथानुपपत्तेः । न हि शब्दस्य परार्थोश्चारणान्यथानुपपत्त्या प्रतिपन्ननित्यत्वस्य स्तिमितमा रुतावृत्तस्य व्यञ्जकाध्वनीनन्तरेण प्रतिपत्तिरुपपद्यत इति । तदप्यवधम् । परार्थो - वारणान्यथानुपपत्तेः शब्दनित्यत्वसाधिकायाः प्रागेव परास्तत्वात् । तथा च शब्दप्रतिपतेरुत्पत्तिप्रकारेणाप्युपपद्यमानत्वात्ततो न ध्वनिसिद्धिः । अस्तु वा कथंचेितत्सिद्धिः । तथापि ते किञ्चित्कुर्वतः शब्दं व्यञ्जयन्त्यन्यथा वा । न तावदन्यथा । अतिप्रसक्तेः । प्रथमपक्षे तु किं ते कुर्वन्तीति वाच्यम् । विशिष्टं संस्कारमिति चेत्, ननु कोऽयं विशिष्टः संस्कारो नाम | शब्दसंस्कारः श्रोत्र संस्कार उभयसंस्कारो वा । तत्राद्यपक्षे १० व्यञ्जक वायुना यावद्वेगमभिसर्पता यावान्वर्णविभागः संस्कृतस्तावत एव श्रवणं स्यान्न समस्तस्य वर्णस्येति खण्डशस्तस्य प्रतिपत्तिः स्यात् । अथ वर्णस्य निरवयवत्वादेकत्र संस्कृतः सर्वत्रैव संस्कृतोऽसाविति नायं दोषः । तर्हि निर्विभागत्वा देवै कत्रासंस्कृतः सर्वत्र तथैवेति मनागपि श्रवणं न स्यात् । किंच, क एष शब्दसंस्कारः । किमतिशया - १५ धानमनतिशय व्यावर्तनमावरणापगमो वा । तत्रातिशयाधानं दृश्यस्वभावतापादनम् । अनतिशयव्यावर्तनं त्वदृश्यस्वभावताखण्डनम् । ते च शब्दागिने अभिन्ने वा विधीयते । यदि भिन्ने । तदा तत्करणे शब्दस्य न किञ्चित्कृतनिति तदवस्थाऽस्याश्रुतिर्मवेत् । अथामिने तर्हि शब्दस्यापि तत्कार्यता नुषङ्गादनित्यत्वप्रसङ्गः । यो हि यस्माद- २० भिन्नस्वभावः, तत्करणे तस्यापि करणम् । यथाऽतिशयान तिशयव्यावर्त्तनस्वरूपस्य । ताभ्यामभिन्नस्वभावश्च शब्द इति । आवरणापगमपक्षोऽपि न क्षमकारः । आवरणासम्भवस्येदानीमेव प्रदर्शितत्वात् । माभूत्तर्हि शब्दसंस्कारः । श्रोत्रसंस्कारस्तु भविष्यति । यदाह"अथाऽपीन्द्रियसंस्कारः सोऽप्यधिष्ठानदेशतः । अतो न श्रोष्यति २५
१ मी. छो. श. अ. लो. ६९, ७० ।
"Aho Shrut Gyanam"
६८५