________________
प्रमाणनयतत्वालोकालङ्कारः
[ परि. ४ सु. १०
CC
ग्राह्यत्वात् । यत्पुनर्यथोक्तसाध्यान्वितं न भवति तदपृथग्देशवृतित्वे सत्ये केन्द्रियग्राह्यमपि न भवति यथैकाम्रफलसमाश्रितौ रूपरसाविति । अनेकाम्रफळाश्रितै रूपादिभिर्व्यभिचारः स्यात्तद्यावृत्त्यर्थमपृथग्देशवृत्तित्व इत्युक्तम् । एवं च, अन्यार्थ प्रेरितो वायुर्यथाऽन्यं न ५ करोति च ॥ तथाऽन्यवर्णसंस्कारशक्तो नान्यं करिष्यति ||१|| " इत्यादि प्रत्युक्तमवगन्तव्यम् । यदि च ध्वनयः शब्दानां व्यञ्जकाः प्रतिज्ञायन्ते तर्हि तद्व्यापारे नियमेनोपलब्धिः शब्दस्य तु भवति तद्विपरीतस्वरूपत्वात्तदप्यपर्यालोचितजल्पितम् । शब्दस्य सर्वगत्वासिद्धेः । तथा हि-शब्दः सर्वगतो न भवति सामान्यविशेषवत्त्वे सति बाह्येन्द्रिय१० प्रत्यक्षत्वात् । य एवं स एवं यथा कुम्भः । तथा च शब्दस्तस्मात्तथेति । अपि चैते ध्वनयः केन समधिगता येन तदधीना शब्दश्रुतिः स्यात् । प्रत्यक्षेणानुमानेनार्थापत्त्या वा । प्रत्यक्षेण चेत् किं श्रावणेन स्पार्शनेन वा । न तावच्छ्रावणेन तथाप्रतीत्यभावात् । न हि श्रावणे चेतसि शब्दा इव ध्वनयोऽपि प्रतिभासन्ते । विवादाभावप्रसक्तेः । अथ १५ स्पार्शनेन स्वपाणिपल्लवपिहितवक्त्र कमलो हि जल्पन्प्रमाता स्वपाणिस्पर्शनेन ध्वनीन्समधिगच्छति । इत्यपि न्यायपराङ्मुखम् । वायुवत्ताल्यादिव्यापारानन्तरं वक्त्र कुहर विनिर्गतादावन्दूनामप्युपलम्भतः शब्दाभिव्यञ्जकत्वप्रसक्तेः । वक्त्रवक्त्रप्रदेश एवं विपुषां प्रध्वंसतः श्रोतृश्रवणप्रदेशे गमनाभावान्न शब्दाभिव्यञ्जकत्वमित्यत्रापि तुल्यम् । न खलु २० ध्वनयोऽपि तत्र गच्छन्तः प्रत्यक्षतः प्रतीयन्ते । शब्दप्रतिपत्त्यन्यथानुपपत्त्या तु प्रतीतिरुभयत्राप्यविशिष्टा । यथा च स्तिमितभाषिणः सलिलकणानां नोपलम्भस्तथा प्रसञ्जनोपलम्भोऽपि नास्ति । अथ स्तिभितास्तत्रापि पवनाः परिकल्प्यन्ते । कथं न जलबिन्दवोऽपि ।
"
विशेषाभावात् । एतेन वदतो बदनाये स्थिततूलादेः प्रेरणोपलम्भादनु२५ मानतो ध्वनीन्प्रतिपद्यन्त इत्यपि प्रत्यादिष्टम् । तद्वत्तोयबिन्दूनामप्यतः
६८४
$
१ मी. लो, सू. ६ श.नि. लो. ८०,
८१ ।
" Aho Shrut Gyanam"