________________
परि. ४ स्. १०] स्याद्वादरत्नाकरसहितः
६८३ भवतु वा यथा कथञ्चिच्छन्दस्यावृतत्वं तथापि तदावरणं दृश्यमदृश्यं वा नित्यमनित्यं वा व्यापकमव्यापकं वा, एकमनेक वेत्यष्टौ विकल्पाः । तत्र न तावदृश्यमिति विकल्यः । प्रत्यक्षतस्तत्प्रतीत्यभावात् । ततस्तत्प्रतीतौ वा विवादाभावः स्यात् । न हि पीते पीततया प्रत्यक्षतः प्रतीयमाने कश्चिद्विवादायोपतिष्ठते । अथादृश्यं तदावरणम् । तर्हि कथं तद्- ५ स्तित्वनिश्चयः । ननु नित्यस्य सतः शब्दस्योच्चारणादनन्तरं शब्दस्याविद्यमानतयैवानुपलब्धिसिद्धेरावरणकल्पनावैयर्थ्यात् । नित्यत्वे त्वावरणस्य सदा शब्दस्यानुपलब्धिप्रसक्तिः । अनित्यं त्वावरणं सहेतुकमहेतुकं वा । नाद्यः कल्यः । तदुत्पादकस्य हेतोः कस्यचिदप्रतीतेः । अहेतुकस्य तस्यानित्यत्वं विरुद्धमिति । व्यापकत्वमप्यावरणस्य दुरु- १० पपादम् । बाधकप्रमाणप्रतिहतत्वात् । तथा हि-आवरणत्वेनाभिमतः प्रभञ्जनो न व्यापकः स्पर्शवव्यत्वादुपलशकलवत् । व्यापकत्वे वाऽस्य न कचित्कस्यापि शब्दोपलब्धिः स्यात् । तस्य सर्वत्रावृतत्वात् । अव्यापकत्वे तस्याऽनेन शब्दस्यावार्यत्वानुपपत्तिः । तन्मध्ये तद्देशे तत्पार्थे चाविद्यमानत्वात् । प्रत्युत शब्द एवावारकः स्यात् । अन्यथा १५ सर्षपकणोऽपि कुम्भस्याबारकः स्यात् । ननु वसुधादिना व्योम्नस्तथाविधस्याप्यात्रियमाणत्वदर्शनाददोषोऽयमिति चेत् । तदपि न कमनीयम् । तत्प्रदेशस्यैव तेनात्रियमाणत्वाङ्गीकारात् । शब्दप्रदेशस्यापि पवनेनात्रियमाणत्वाभ्युपगमे शब्दस्य सांशत्वमनित्यत्वं वापद्येत । समस्तशब्दानां च यद्येकमेवावरणं कल्प्येत । तदैकश्रवणशब्दे सर्वेषां २० श्रवणप्रसक्तिः । तदावरणापगमे तद्वत्सर्वेषामनावृतत्वात् । तदश्रवणे वाऽभिमतशब्दस्यापि तद्वदश्रवणं स्यात् । अविशेषात् । अथ प्रतिशब्दं विभिन्नमावरणमिष्यते । तन्न युक्तिमार्गमवगाहते । सर्वशब्दानां व्यापकत्वेन समानदेशत्वे समानेन्द्रियग्राह्यत्वे चावरणभेदम्य व्यञ्जकभेदस्य चानुपपत्तेः । अत्र प्रयोगः । शब्दाः प्रतिनियतावरणावार्याः २५ प्रतिनियतव्यञ्जकव्यङ्गयाश्च न भवन्त्यपृथन्देशवृत्तित्वे सत्येकेन्द्रिय
"Aho Shrut Gyanam"