________________
६८२
प्रमाणनयतत्त्वालोकालङ्कारः
परि. ४ सु. १०
वयवानामुपलम्भेन भाव्यम् । विपुलस्वापि चपलादण्डम्य महतोऽपि च प्रदीपकुमलस्य सहसैव विनाशे तदवयवानामनुपलम्भात् । अथ तयोरवयवानामवयविविपरीतपरिणामापन्नत्वान्नोपलम्भः । शब्दावयवानामप्येवमस्तु । नन्वेकज्ञानसंसर्गिपदार्थान्तरोपलम्भात्कुम्भाद्यभाव५ प्रतीतिर्दृष्टा । शब्दाभावप्रतीतिस्तु कथम् । तत्रैकज्ञानसंसर्गिणः
कस्यचिदप्यभावादिति चेत् । तदप्यसूक्ष्मम् । विवक्षितशब्दाभावप्रतीतौ शब्दान्तरम्यकज्ञानसंसर्गिणः सम्भवात् । निःशब्दे प्रदेशे सर्वशब्दाभावप्रतीतौ तर्हि तदसम्भव इति चेत् । मैवम् । तत्राऽप्यात्म
स्वरूपस्य तदेकज्ञानसंसर्गिणः सम्भवात् । स्वपररूपावभासकम्व१० भावस्य ह्यात्मनः परस्मिन्नोग्यदेशावस्थिते वस्तुनि न केवलात्मस्वरूप
संवेदनं भवेत् । यावन्ति खलु वस्तूनि प्रतिषेध्यत्वसम्मतवस्तुना साकं योग्यदेशस्थितानि सन्त्यवश्यं प्रतिभासन्ते तानि सर्वाण्यप्येकज्ञानसंसगीणि । तत्र कुम्भादौ प्रतिषेध्यो भूतलादिरात्मस्वरूपं चैकज्ञानसंसर्गि।
शब्दे तु प्रतिषेध्ये सशब्दके प्रदेशे शब्दान्तरमात्मस्वरूपं च । नि:१५ शब्दके तु केवलमात्मस्वरूपम् । अथ वा मा भवत्वेकज्ञानसंसर्गिपदा
र्थान्तरम् । प्रमाणान्तरगृहीतं तु भविष्यति । यथा स्मृतिगोचरे चैत्यकुलादौ कचिदभावप्रमाणेन भवतामभावग्रहणे चैत्यकुलादि । स्यादेतत् । यद्यपि शब्दो नान्यत्र गतो यद्यपि श्रोता समवधानबन्धुरो
यद्यपि च नेन्द्रियदोषः सञ्जातस्तथापि व्यञ्जकाभावादेवाय नोपलभ्यते । २० यथा प्रदीपाद्यभावात्तिमिरनिकरकरम्बितकुम्भादिः । न खलु दृश्यस्व
भावापरित्यागेनादृश्यस्वीकारे तस्यावृतत्वमुपपद्यते । अतिप्रसक्तेः । यद्यदा यत्स्वरूपं न परित्यजति न तस्य तदा प्रत्यनीकस्वरूपसम्भवः । यथाऽनावृतावस्थायां दृश्यस्वरूपं शब्द इति । तदा तत्स्वरूपपरित्यागे वा सिद्ध
मस्यानित्यत्वं स्वरूपभेदस्वभावत्वात्तस्य । ननु घटादीनां स्वरूपाभेदे२५ ऽपि तिमिरस्तोमादिनाऽऽवृतत्वं दृश्यते । इत्यप्यसत्यम् । तत्रापि स्वरूप__ भेदे सत्येवावृतत्वोपपत्तेः । स्वरूपमखण्डयतः कस्यचिदावरणत्वायागात् ।
"Aho Shrut Gyanam"