________________
परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः चेत् । तदपि न्यायबाह्यम् । शब्दस्य तात्वादिसंयोगविभागलक्षणकारणकदम्बकस्योत्तरत्र क्षयप्रतीतितः प्रतिक्षणभन्यत्वसिद्धेरेकत्वासत्त्वोपपत्तेः । अथ ताल्वादिसंयोगविभागयोः शब्दाभिव्यञ्ज कसमीरणोत्पत्तौ कारणत्वं न शब्दोत्पत्तावित्युच्यते। तार्ह वर्तिकामुखतैलानलसंयोगादेरपि प्रदीपाद्यभिव्यञ्ज कप्रभञ्जनजनने कारणत्वं न प्रदीपाद्युत्पाद इत्यप्यु- ५ च्यताम् । विशेषादर्शनात् । प्रतीतिविरोधः पुनरुभयत्राप्यविशिष्टः। अनेन नापि मिथ्यात्वरूपं बाधाविधुरत्वादित्यपास्तम् । ताल्वादिसंयोगविभागलक्षणस्य कारणकदम्बकस्योत्तरत्र क्षयप्रतीतितः प्रतिक्षणं शब्दस्यान्यत्वसिद्धरेव बाधकत्वात् । उत्पन्नः कुम्भो विनष्टः कुम्भ इति प्रतीतिक्त् । अथ प्रत्यभिज्ञानेनैवेयं प्रतीतिः कस्मान्न बाध्यते । मैवं वादीः। १० प्रत्यभिज्ञानस्य शब्दे सादृश्यहेतुकतया भ्रान्तत्वेन नित्यत्वाप्रसाधकत्वात् । ननु यथा घटे विनष्टे विनाशकारण मुद्गरादि कपालमाला च विलोक्यते न तथा शब्दश्रवणानन्तरं विनाशकारणं कपालमालाकल्पं च किमपि परिदृश्यते । केवलं शब्दो नोपलभ्यते । न चानुपलब्धिमानेन विनाशोऽस्यावसितुं शक्यते । तथा सत्युपलभ्यानु- १५ पलब्धानां घटादीनां विद्यमानानामेव विनाशः स्यात् । न चैतदस्ति । तयुक्तम् । यतः शब्दस्तावदाकर्णनानन्तरं कुम्भादिवदन्यत्र न गतः । व्यापकत्वेन तस्य त्वया स्वीकारात् । नापि घटादिवदेव तत्रस्थ एव केनचिदावृतः । तदावरणस्य निराकरिष्यमाणत्वात् । नापि सहसा श्रोतुरिन्द्रियदोषः कश्चिदुपजातः 1 शब्दान्तराणां तदानीमेव श्रवणात्। २० न चानवहितः प्रमाता । सविशेषमवधानवताऽपि तदनुपलम्भात् । सल्यामपि चैतावत्यां सामयां यः कुम्भादिरन्यो वा कश्चिन्नावलोक्यते तस्य प्रध्वंसः प्रत्यक्षेणैवावगतो भवति । एवं च प्रत्यक्षप्रसिद्धस्यास्य न कारणाभावद्वारेणाऽभावोऽभिधातुं साधीयान् । एतदर्शनादेव कारणस्यानुमितेः । यतूक्तं कपालमालाकल्पं च किमपि न परिदृश्यत २५ इति । तदपि न्यायबाह्यम् । न ह्ययमेकान्तो यत्सर्वत्र वस्तुविनाशे तद
"Aho Shrut Gyanam"