________________
६८०
प्रमाणनयतत्त्वालोकालङ्कारः परि. ४ सू. १० जलपात्रेषु हि भिन्नदेशेषु सविताऽप्येकोऽप्येकेन युगपद्भिन्नदेशः गृह्यते । अथ न तत्र मार्तण्डमण्डलमवलोक्यते तस्य नभसि व्यवस्थानात्तन्निमित्तानि तु जलपात्रेषु प्रतिबिम्बानि भिन्नानि प्रतीयन्ते ततो नानेकान्तः । तदुक्तम्-" अहो केन निमित्तेन प्रतिपात्रं पृथक्पृथक् ।। भिन्नानि प्रतिबिम्बानि गृह्यन्ते युगपन्मया ॥ १॥" एतत्कुमारिल: परिहरन्नाह --" अत्र बमो यदा तावजले सौर्येण तेजसा ।। स्कुरता चाक्षुषं तेजः प्रतिस्रोतः प्रवर्तितम् ॥ १ । स्वदेशमेव गृह्णाति सवितारमनेकधा ॥ भिन्नमतियथा पात्रं तदाऽस्यानेकता
कुतः ॥२॥" प्रतिस्रोतः प्रवर्तितमिति प्रतीपप्रवर्तितमिति १० प्रतीपप्रवर्तितमधस्तात्प्रवृत्तं सदूर्ध्व प्रवर्तितमित्यर्थः ।
एवं च-- नित्यत्वं शब्दराशेः श्रवणकरणकं भ्रान्तिसन्देहशन्य
विज्ञानं प्रत्यभिज्ञेत्यभिहितममलं मूलतस्तावदन ॥ पश्चानिःशेषदोषैचिरहितमुदितं लैङ्गिक मानमन्ते
त्वर्थापत्तिः कलकव्यतिकरविधुरा दर्शिता सिद्धिहेतुः ॥५५७|| जैमिनीय निनदेषु नित्यता दर्शितैवमतिविस्तरात्त्वया ॥ किन्तु काचिदपि युक्तिरक्षता वीक्ष्यतेऽत्र न परीक्षकोचिता ॥५५८॥
तथा हि-यत्तावदुपन्यस्तं स एवायं गकार इत्यादिप्रत्यभिज्ञाप्रत्यक्षत एव तावद्वर्णानां नित्यत्वमवसीयत इत्यादि । तन्न २० सत्यम् । अस्यैकत्वप्रत्यभिज्ञानस्य भ्रान्तत्वेनैकत्व सिद्धावसमर्थत्वात् ।
प्रदीपायेकत्वप्रत्यभिज्ञानवत् । न खलु स एवाऽयं प्रदीपः कदलकाण्डकुन्तलकलापादित्यादि प्रत्यभिज्ञानं प्रदीपादीनामेकत्वं प्रसाधयति । अथाऽत्रैकत्वाभावात्तस्यैकत्यप्रसाधनासामर्थ्यम् । तदितरत्रापि तुल्यम् ।
ननु तैलादिकारशकलापस्योत्तरत्र क्षयोपलम्भात्नदीपादेः प्रतिसमय२५ मन्यत्वप्रतीतेरुपपन्नमेकत्वासत्त्वम् । न तु शब्दस्य । विपर्ययादिति
१ मी. श्लो. वा. शब्दनित्यत्वाधिकरणे श्लो. ७९.८०।८१६८२ ।
"Aho Shrut Gyanam"