________________
परि. ४ सू. १० ] स्याद्वादरत्नाकरसहितः निश्चयात् । अथानेकप्रतिपत्तभिर्विभिन्नदेशतयोपलभ्यमानत्वाद्कारादीनां नानात्वं कथ्यते । तन्न । विभिन्नदेशतयोपलभ्यमानेनादित्येनानेकान्ताद्विभिन्नदेशतयोपलम्भश्चैषां व्यञ्जकध्वन्यधीनो न स्वरूपभेदनिबन्धनः । तथा हि --" नित्यत्वं व्यापकत्वं च सर्ववर्णेषु संस्थितम् ॥ प्रत्यभिज्ञानतो मानाद्वाधसङ्गमवर्जितात् ॥ १॥ यो ५ यो गृहीतः सर्वस्मिन्देशे शब्दो हि दृश्यते । न चास्यावयवाः सन्ति येन वर्तेत भागशः ॥ २ ॥" यो यो गृहीत इति । अस्य भावार्थः । नास्त्यसौ देशो यत्र शब्दो नावगम्यते । यो यो देशो गृहीतः सर्वत्राऽस्यावगमात् । ततोऽसावात्मादिवद्विभुरिति । " शब्दो वर्तत इत्येव तत्र सर्वात्मकश्च सः ।। व्यञ्जकध्वन्यधीनत्वात्तदेशे १० स च गृह्यते ॥ १॥" शब्दो वर्तत इति । न भागशः कृत्स्नपरिसमाप्त्या च शब्दो वर्ततेऽपि तर्हि शब्दो वर्तत इत्येवाऽस्याविशेषितं वृत्तिमात्रमातिष्ठामहे यतः शब्दो वर्तत इत्येवेति वृत्तौ यद्भवति तदाह तत्रेति । तत्र वृत्तिप्रकारे । सर्वात्मकः शब्दो वर्तत इत्येतावदेव भवति । नाधिकं किञ्चिद्भागवृत्तिः कृत्स्नपरिसमाप्तिर्वा । निर्भागस्य तस्य १५ भागवृत्तेर्व्यापिनश्च कृत्बपरिसमाप्तेरभावादिति पूर्वार्धस्यार्थः । “ ने च ध्वनीनां सामर्थ्य व्याप्तुं व्योम निरन्तरम् ॥ नैवावच्छिन्नरूपेण नाऽसौ सर्वत्र गृह्यते ॥ १ ॥ ध्वनीनां भिन्नदेशत्वं श्रुतिस्तत्रानुरुध्यते ॥ अपूरितान्तरालत्वाच्छब्देऽप्यविभुतामतिः ॥२॥ गतिमद्वेगवत्वाभ्यां ते चायान्ति यतो यतः ॥ श्रोता ततस्ततः २० शब्दमायातमिव भन्यते ।। ३॥' अथैकेन भिन्नदेशतया उपलम्भाद्वादीनां घटादिवन्नानात्वम् । नैवमपि । आदित्येनैवाऽनेकान्तात् । दृश्यते टेकेनादित्यो भिन्नदेशा न चैतावताऽसौ नाना । अथ युगपदेकेन भिन्नदेशतयोपलब्धेरिति विशिष्योच्यते। तथाऽप्यनेनैवाऽनेकान्तः ।
१ मी. श्लो. वा. शब्दनित्यताधिकरणे श्लो. १७१।१७२ । २ ' असंभवात्' इति भ. पुस्तके पाठः। 2 मी. श्लो. वा. शब्दनित्यत्वाधिकरणे श्लो. १७३-१७६।
"Aho Shrut Gyanam"