________________
६७८
प्रमाणनयतत्त्वालोकालङ्कारः परि. ४ सू. १० भावः । " अर्थापत्तिरियं चोक्ता पक्षधर्मादिवर्जिता ॥ यदि नाशिनि नित्ये वा विनाशिन्येव वा भवेत् ॥ १॥ शब्दे वाचकसामर्थ्य तदा दूषणमुच्यताम् " ॥ यदि शब्दे नाशिनि नित्ये वा वाचकसामर्थ्यमित्यनेन संशय उक्तः । विनाशिन्येव वा शब्दे वाच५ कसामर्थ्यमित्यनेन तु विपर्यय उपदर्शितः । तदा दूषणमुच्यतामिति । यदैव शब्दे वाचकसामर्थ्य सन्दिग्धं विपर्यस्तं च स्यात्तदा दूषणावसरः । एतम्चात्रोभयमपि नास्तीति भावः । " न दृष्टार्थसम्बन्धः शब्दो भवति वाचकः । तथा चेत्स्यादिपूर्वोऽपि सर्वः सर्व प्रकाशयेत् ।। १॥ सम्बन्धदर्शनं चास्य नानित्यस्योपपद्यते ॥ सम्बन्धज्ञानसिद्धिश्वेत ध्रुवं कालान्तरस्थितिः ॥२॥ अन्यस्मिन् ज्ञातसम्बन्ध न चान्यो वाचको भवेत् ।। गोशब्दे ज्ञातसम्बन्धे नाश्वशब्दो हि वाचकः ॥३॥" अथ मतं सदृशतया शब्दस्यार्थप्रतिपनिहेतुत्वोपपत्तेनीर्थापत्तितोऽस्य नित्यत्वसिद्धिः । पुनः पुनरुच्चार्यमाणो हि शब्दः सादृश्यादेकत्वेनाव्यवसीयमानोऽर्थावबोधं विदधाति न पुनर्नित्यत्वादिति । तदपि क्षोदक्षमम् । सादृश्येन शब्दादर्थावबोधासम्भवात् । न हि सदृशतया शब्दः प्रतीयमानो वाचकत्वेन निश्चीयते । किं त्वेकत्वेन ! य एव हि सङ्केतावसायसमये मया ध्वनिरुपलब्धः स एवायमिति प्रतीतेः । अपि च सादृश्यादर्थप्रतीतौ भ्रान्तः
शाब्दप्रत्ययः स्यात् । न ह्यन्यस्मिन्गृहीतसङ्केतेऽन्यस्मादर्थप्रतीतिर२० भ्रान्ता भवति । गोशन्दे गृहीतसङ्केतेऽश्वशब्दाद्वार्थप्रतीतेरभ्रान्तत्वप्र.
सक्तेः । न च भूयोऽवयवसाम्ययोगम्वरूपं सादृश्यं शब्दे सम्भवति । विशिष्टवर्णात्मकत्वाच्छब्दानाम् । वर्णानां च निरवयवत्वात् । न च गत्वादिविशिष्टानां गादीनां वाचकत्वं युक्तम् । गत्वादिसामान्यस्याभावात् । तदभावश्च गादीनां नानात्वायोगात् । सोऽयमिति प्रत्यभिज्ञया तेषामेकत्व
१ मी. श्लो. वा. शब्दनित्यताधिकरणे श्ला. २३॥२३८. २ मी. श्लो. स. ५ स. लो. १४०, १४।
"Aho Shrut Gyanam"