________________
परि. ४ सू.१०] स्याद्वादरत्नाकरसहितः
६७७ ञ्चारणान्यथानुपपत्तेः । तथा च जैमिनीयं सूत्रम्- "दर्शनस्य परार्थत्वात्" इति । अनेन किलार्थापत्तिरुक्ता । कथम् । दर्शनमुञ्चारणम् । तच्च परस्यार्थप्रतिपत्त्यर्थम् । सा चाऽर्थप्रतिपत्तिः शब्दस्यानित्यत्वे न घटते । गृहतिसम्बन्धाद्धि शब्दादर्थप्रतीतिराविर्भवति । नान्यथा । अतिप्रसक्तेः । सम्बन्धावगमश्च प्रमाणत्रयसम्पाद्यः । तथा ५ हि-यदैको वृद्धोऽन्यस्मै प्रतिपन्नसंकेताय प्रतिपादयति देवदत्त गामभ्याज शुक्लां दण्डेनेति । ततः पार्श्वस्थोऽन्यः कश्चिदव्युत्पन्नसङ्केतः शब्दार्थो वृद्धौ च प्रतिपाद्यप्रतिपादको प्रत्यक्षतः प्रतिपद्यते । श्रोतुश्च प्रतिपाद्यवृद्धस्य गवादिगोचरक्षेपणादिविशिष्टचेष्टालझणादनुमानात्तां गवादिविषयां प्रतिपत्तिमवबुद्धयते । तत्प्रतिपत्त्यन्यथानुपपत्त्या च १० शब्दस्य वाचिकामर्थस्य तु वाच्यां शक्तिं परिकल्पयति । सोऽयं प्रमाणत्रयसम्पाद्यः सन्बन्धावगमो न सकृद्धाक्यप्रयोगात्सम्भवति । किन्त्वावापोद्वापाभ्यां पुनस्तच्छब्दोच्चारणादेव । न चास्थिरस्य पुनः पुनरुच्चारणं घटते । तदभावे च नान्वयव्यतिरेकाभ्यां वाच्यवाचकशक्त्यवगमः । तदसत्त्वान्न प्रेक्षावद्भिः परावबोधाय वाक्यमुच्चार्येत । १५ न चैवम् । ततः परार्थवाक्योच्चारणान्यथानुपपत्त्या निश्चीयते नित्योऽसौ । तदुक्तम् - " शब्दवृद्धाभिधेयानि प्रत्यक्षेणैव पश्यति।। श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टया ॥ १ ॥ अन्यथानुपपत्त्या तु बुद्धः शक्ति द्वयाश्रिताम् ।। अर्थापत्त्यैव बुद्धचन्ते सम्बन्धं त्रिप्रमाणकम् ॥ २॥" अनुमानेन चेष्टयेति । गोक्षेपणादिचेष्टालक्षः २० णेनानुमानेन श्रोतुः प्रतिपन्नत्वं पश्यतीत्यर्थः । अर्थापत्त्यैवेति, यद्यपि सम्बन्धावबोधेऽध्यक्षानुमानार्थापत्तिलक्षणप्रमाणत्रयस्यापि व्यापारस्तथापि साधकतमतया करणत्वेनार्थापत्तेरेव मुख्यवृत्त्या तत्र प्रामाण्यम् । प्रत्यक्षानुमानयोः पुनस्तदन्तर्गतत्वेनात्रेतिकर्तव्यतास्थानीयत्वमिति
१ मी. श्लो. वा. शब्दनित्यताधिकरणे श्लो. २४१-२४४.
"Aho Shrut Gyanam"