________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. ४ सू. १०
अत्र
जनकम् । किंत्वभिव्यञ्जकम् । ततो विप्रतिपन्नान्प्रतीदं प्रतिपाद्यते । अन्यदापि यच्छब्दस्योच्चारणं तदस्याभिव्यञ्जकमुच्चारणत्वात् । यदुच्चारणं तदभिव्यञ्जकं यथैव तत्कालोपलक्षितमुच्चारणम् । तथा विवादाध्यासितकाल एतद्गादिसंबद्धः कालत्वादिदानीन्तन कालवत् । नित्यः शब्दः ५ श्रावणत्वाद्यदित्थं तत्तथा । यथा शब्दत्वसामान्यम् । देशकालादिभिन्ना गोब्दव्यक्तिबुद्धय एकगोशब्दविषया न वाऽनेकार्थगोचरा । गौरित्यु लेखे नोत्पद्यमानत्वात् । सम्प्रत्युत्पन्नगोशब्दव्यक्तिबुद्धिवत् । गोशब्दव्यक्तिबुद्धिरित्यभिधीयमाने सिद्धसाधनं भवेत् । एक गोशब्दव्यक्तिबुद्धे रेकविषयत्वाङ्गीकारात्तद्व्यवच्छेदार्थं १० बहुवचनम् । तथा सामान्यगोशब्दनिबन्धनाः समाना एव बुद्धयः प्रादुर्भवन्तीति तन्निवृत्यर्थं व्यक्तिग्रहणम् । एकस्मिन्देशे काले वा बहूनां प्रमातृणां गोशब्दज्ञानान्येकगोशब्दव्यक्तिगोचराणीति सिद्धसाध्यता मा प्रापदिति देशकालादिभिन्ना इत्यभिहितम् । स्तनो गोशब्दोऽद्याप्यनुवर्तते गौरिति ज्ञायम! नत्वादद्योश्चा१५ रितगोशब्दवत् । अथ वाऽद्यतनो गोशब्दोऽप्यासीद्गौरिति ज्ञायमानत्वाद्भथस्तनगोशब्दवत् । शब्दो दीर्घकालावस्थायी सम्बन्धबलेनार्थप्रतीतिजनकत्वाद्भूम सामान्यवत् । यः पुनरस्थिरः स सम्बबलेन नार्थप्रतीतिं जनयति तादात्विकनिमित्तत्वात्प्रदीप सौदामिनीप्रकाशवत् । तदेवं – “ कञ्चित्कालं स्थिरः शब्दः सर्वकालमपि २० स्थिरः || विनाशहेतु शून्यत्वात्सामान्याकाशकालवत् ॥ १॥ अस्यार्थः - शब्दः सर्वकालं स्थिरो विनाशहेतुशून्यत्वात् । सामान्यादिवत् । विनाशहेतुरान्यायं च ऋञ्चित्कालं स्थिरत्वात्सिद्धम् । स हि सम्बन्धकरणकालं यावदनुपद्भुतः पश्चादपि केनाऽपनीयतामिति । विवादाध्यासितकालो गादिशब्दशून्यो न भवति कालत्वादिदानीन्त-२५ नकालवदित्यनुमान परम्पराऽपि शब्दे नित्यत्वमवस्थापयति । अर्थापत्तिरप्यत्र नित्यत्वमेव प्रकटयति । तथा हि- नित्यः शब्दः परार्थ तदु
1
73
६७६
" Aho Shrut Gyanam"
-