________________
परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः
६७५ गतिमूलत्वेन तस्याः शाब्दत्वादित्युक्तम् । तदप्ययुक्तम् । एवं हि प्रत्यक्षावगतधूमादवगम्यमानस्य कृष्णवर्ल्स नोऽपि प्रत्यक्षमूलत्वात्प्रत्यक्षप्र. मेयत्वं भवेत् । तस्मादिदमिह रहस्यं पदापेक्षयाऽनन्विताभिधानं वाक्यापेक्षया त्वन्विताभिधानमिति ।
भो भट्टशिष्याः खलु युक्तिमूलान्युन्मूलि तान्येवममूनि मूलात् ॥ ५ चिरप्ररूढोऽभिहितान्वयस्तर पतत्विदानी विषवृक्ष एषः ॥ ५५५ ॥ सम्प्रतीदं चिन्त्यते किमयं शब्दो नित्यः सन्नर्थमभिदधाति, अनि
त्यो वा। शब्दनित्यत्ववादिनो मीमांसमय पूर्वपक्षं विस्मरश तत्रैवमुदीरयांबभूवुर्मीमांसाध्ययनैकदुर्विदग्धाः ॥ उपपाद्य खण्डनम् । शब्दस्य सनातनत्व एव प्रमितिः संश्रयतेऽत्र सा. १०
क्षिमुद्राम् ॥ १५६ ॥ तथा हि, स एवायं गकार इत्यादिप्रत्यभिज्ञानप्रत्यक्षत एव तावद्रुर्णानां नित्यत्वमवसीयते । न चास्याज्ञानत्वलक्षणमप्रामाण्यम् । ज्ञानत्वेन प्रतिप्राणि प्रतीयमानत्वात् । नापि संशयस्वभावम् । एकांशावलम्बित्वात् । नापि मिथ्यात्वरूपम् । बाधाविधुरत्वात् । न च १५ दुष्टकारणोत्पाद्यत्वादस्याप्रामाण्यमिति मन्तव्यम् । तत्कारणानां दुष्टखानवधारणात् । नाप्यधिगतार्थाधिगन्तृत्वात् । स्मयमाणानुभूयमानविशेषेणावच्छिन्नस्य गकारादेः पूर्वसंवेदनाविषयत्वात् । तदुक्तम् -
" थे: पूर्वावगतोऽशोत्र स नो नाम प्रतीयते ।। इदानीन्तनमस्तित्वं न हि पूर्वधिया गतम् ।। १॥” इति । प्रत्यक्षत्वं चास्य २० श्रोत्रेन्द्रियान्वयव्यतिरेकानुविधायित्वात्सुप्रसिद्धम् । न च स्मृतिपूर्वकत्वादस्याप्रत्यक्षवं वक्तुं युक्तम् । तत्पूर्वकत्वेऽप्यस्य सत्सम्प्रयोगजत्वेन प्रत्यक्षत्वोपपत्तेः । एवं च प्रत्यभिज्ञानप्रत्यक्षमाहात्म्यतः शब्दस्य नित्यत्वे प्रतिपन्ने इदानीमिवान्यदापि यच्छब्दस्योच्चारणं न तत्तस्य
१ मी. लो. स. ४ प्र. सू. श्लो. २३३,२३४ ।
"Aho Shrut Gyanam"