________________
६७४
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० ध्यवसायेऽपि हेषाध्वनेः श्वैत्यसमानाधिकरणौ हेषाध्वनिखुरपुटटङ्कारस्वावध्यवस्यति । तस्याऽश्चत्वे वेगवति गमने च श्वेतद्रव्यवर्तिन्यवानुमानं न स्वतन्त्रयोरिति । प्रमाणान्तरेणासम्बद्धावगतानां न क्वचिदन्यो
न्यसम्बन्धबोधकत्वमनुमानार्थापत्तिव्यतिरेकेण तवापि प्रतीतमिति । अपि ५ च मानान्तरेणानुभूतानामर्थरूपाणामन्वयबोधनसामर्थ्यमुपलम्भे वाऽन्व
यबोधकाख्यसनमप्रमाणप्रसङ्गः । न चास्य शाब्देऽन्तर्भावः । शब्दाभावात् । पदार्थाभिधानावान्तरव्यापारेण हि शब्दाद्यदन्वयज्ञानं तच्छाब्दमित्येष एव वो राद्धान्त इति नास्य शाब्देऽन्तर्भावः । यदि च तत्त्वं
विवेच्यते तदेवमेव प्रत्यक्षादिभिः सह तुल्यकक्षतया शाब्दस्य स्थानेऽभि१० धानीयम् । जतु शाब्दं तद्भेदस्य । न हि लौकिका ब्राह्मणयुधिष्ठिराविति
प्रयुञ्जते । प्रयुञ्जते तु ब्राह्मणराजन्याविति वा वशिष्ठयुधिष्ठिराविति वा । न च भेदान्तरोपन्यासेन भेदान्तमुपन्यस्तं भवति । तदयं समस्तभानलक्षणप्रवृत्तो मानतुषस्यापि परित्यागे तेनैव सह स्वकौशल्यमनि
त्यजेदिति । यदप्यनन्यलभ्यः शब्दार्थ इत्यादि सर्वत्रैवेति हि स्थिति१५ रिति चेत्यन्तमवादि तदपि पूर्वानुसन्धानवन्ध्येन व्याहृतम् । पूर्व
हि भवानेवेदमवादीत्पदैरभिहिताः पदार्था वाक्यार्थमवगमयन्तीति । सम्प्रति पुनरिदमुदीरयति पदानि लक्षणया वाक्यार्थमवगमयन्तीति । सोऽयं पूर्वापरविरोधेनापि वाचो विरचयनिश्चितं वाचस्पतिः । किं च
स्खलद्गतित्वं नाम सामान्यलक्षणं लक्षणायाः । न च समभिव्याहृत२० पदकदम्बकस्य सर्ववाक्यार्थे स्वलद्गतित्वं प्रतीमः । न खलु यथा
कनकलतिकायां कृतास्पदे कमले कुवलययुगलमिदमालोक्यत इति वाक्यं कामिनीतनुव्यवस्थितवदनवर्तिनेत्रद्वयलक्षणेऽर्थे प्रतिपाद्य स्खलद्वति तथा कामिनीकलेवराधारवके नेत्रद्वन्द्वं दृश्यत इत्येतदपि वाक्यं स्खलद्गत्यभिधातुं शक्यम् । योऽपि समुदिताः पदार्था वाक्यार्थमवगम२५ यन्तीति पक्षस्य कक्षीकारः सोऽपि न क्षेमकारः । समुदितानां
पदार्थानामेव वाक्यार्थत्वादात्मनि च गमकभावायोगात् । यदपि शब्दाव
"Aho Shrut Gyanam"