________________
परि. ४ सु. १०] स्याद्वादरत्नाकरसहितः
६७३ संसृष्टान्पदार्थान्ब्रुवत इत्यभिधीयते । तदप्यनुभवबाधितम् । तेभ्यस्तथाविधेभ्यः संसृष्टानामेव तेषां प्रतीयमानत्वात् । असंहतानि संसृष्टानवगमयन्तीत्येतदपि तथाविधमेव । केवलेभ्यः पदार्थमात्रस्यैव प्रतीतेः । असंहतान्यहतसंसृष्टानवगमयन्तीति पक्षे तु कक्षीकार एव । यदपि गदितं यो हि मानसादपचारादित्यादि । तदत्यल्पमुच्यते। ५ न खलु प्रणिहितेऽपि मनसि श्रुतेप्वपि पदेषु सर्वः सर्वत्र वाक्यार्थ प्रत्येति । अथैवं सुतरामस्मन्मतसिद्धिरिति चेत् । स्यादेवम् । यदि विदितेभ्यः पदार्थेभ्यो वाक्यार्थप्रतीतिरवश्यमुत्पद्येत । विदितेष्वपि तेषु क्लिष्टकाव्यादौ वाक्यार्थप्रत्ययादर्शनात् । अत एव तत्र तत्र पदार्थमात्रं व्याख्याय व्याख्यातारो ब्याहरन्त्ययमत्र वाक्यार्थ इति । अन्यथा १० निरूपितेषु पदार्थेष्ववश्यं वाक्यार्थावगमे व्यर्थं तदभिधानं भवेत् । अथ न पदार्थेभ्यो वाक्यार्थप्रतीतिरुत्पद्यत एवेत्यभिदध्महेऽपि तु तेभ्य एवेति । किमुच्यते मानसादपचरादिति । अथ किमत्र कारणं विदिते. भ्योऽपि पदेभ्यः कदाचिद्वाक्यार्थोऽवसीयते कदाचिन्नेति । क्षयोपशमभावाभावादिति ब्रूमः । यदप्युदितं यम्त्वश्रुतेष्वपि पदेषु इत्यादि । १५ तदपि नावदातम् । श्वेतोऽधो धावतीत्यादिप्रतीतेरानुमानिकत्वेनास्माभिः स्वीकारात् । त्वयाऽपि चेयमनुमानरूपाऽर्थापत्तिरूपा वाऽभ्युपेया । किं च किं येन रूपेण पुरुषेण श्वैत्यसमानाश्रयो हेषाध्वनिपदनिक्षेपशब्दाववगतौ तस्यैवेयं श्वेतोऽश्वो धावतीति धीः । उत यस्याश्रयानध्यवसायस्तस्यापीति । तत्र यदि तावदप्रत्याकलितहेषाध्वनिपदविहार- २० निर्घोषाश्रयस्येत्युच्यते । तदा श्वेतोऽची धावतीति प्रतीतरसम्भवः । स ह्येवं प्रतिपद्यते भवितव्यमत्र प्रदेशे नूनमश्चेन धावता च भाव्य केनचिदिति । अथाऽश्वसम्बन्धिनमेव खरखुटपुटटकारमभ्यासपाटचाप्रतिपत्तावबुद्धयते । तदाऽप्यश्ववर्तिनीमेव वेगवतीं गतिमनुमिनोति नतु केवलामेव तामवगम्य तस्या अश्वान्वयं पदार्थसामर्थ्यमात्रेण प्रतिपद्यते। २५ योऽपि तस्मिन्देशे नास्त्यन्योऽवादिति निश्चित्य पारिशेष्यादाश्रयान
"Aho Shrut Gyanam"